🪷 Mahābhārata · Bhīṣma-Parva · Chapter 15

The Book of Bhīṣma · Parva 6 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 75 Shlokas

MBh 6.15.1
धृतराष्ट्र उवाच कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना कथं रथात्स न्यपतत्पिता मे वासवोपमः
MBh 6.15.2
कथमासंश्च मे पुत्रा हीना भीष्मेण संजय बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा
MBh 6.15.3
तस्मिन्हते महासत्त्वे महेष्वासे महाबले महारथे नरव्याघ्रे किमु आसीन्मनस्तदा
MBh 6.15.4
आर्तिः परा माविशति यतः शंससि मे हतम् कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम्
MBh 6.15.5
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय
MBh 6.15.6
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः
MBh 6.15.7
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा सहस्ररश्मिप्रतिमः परेषां भयमादधत् अकरोद्दुष्करं कर्म रणे कौरवशासनात्
MBh 6.15.8
ग्रसमानमनीकानि य एनं पर्यवारयन् कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन्
MBh 6.15.9
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् चापव्यात्ताननं घोरमसिजिह्वं दुरासदम्
MBh 6.15.10
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् पातयामास कौन्तेयः कथं तमजितं युधि
MBh 6.15.11
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः
MBh 6.15.12
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः
MBh 6.15.13
परिकृष्य स सेनां मे दशरात्रमनीकहा जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
MBh 6.15.14
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् जघान युधि योधानामर्बुदं दशभिर्दिनैः
MBh 6.15.15
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः
MBh 6.15.16
कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम्
MBh 6.15.17
कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः कथं च नाजयद्भीष्मो द्रोणे जीवति संजय
MBh 6.15.18
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः
MBh 6.15.19
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः
MBh 6.15.20
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्
MBh 6.15.21
तं हतं समरे भीष्मं महारथबलोचितम् संजयाचक्ष्व मे वीरं येन शर्म न विद्महे
MBh 6.15.22
मामकाः के महेष्वासा नाजहुः संजयाच्युतम् दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्
MBh 6.15.23
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम्
MBh 6.15.24
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः
MBh 6.15.25
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् निघ्नन्पररथान्वीरो दानवानिव वज्रभृत्
MBh 6.15.26
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् गदासिमकरावर्तं हयग्राहं गजाकुलम्
MBh 6.15.27
हयान्गजान्पदातांश्च रथांश्च तरसा बहून् निमज्जयन्तं समरे परवीरापहारिणम्
MBh 6.15.28
विदह्यमानं कोपेन तेजसा च परंतपम् वेलेव मकरावासं के वीराः पर्यवारयन्
MBh 6.15.29
भीष्मो यदकरोत्कर्म समरे संजयारिहा दुर्योधनहितार्थाय के तदास्य पुरोऽभवन्
MBh 6.15.30
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः
MBh 6.15.31
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः
MBh 6.15.32
वामे चक्रे वर्तमानाः केऽघ्नन्संजय सृञ्जयान् समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम्
MBh 6.15.33
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय
MBh 6.15.34
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते दुर्जयानामनीकानि नाजयंस्तरसा युधि
MBh 6.15.35
सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः
MBh 6.15.36
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय
MBh 6.15.37
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः न पाण्डवानगणयत्कथं स निहतः परैः
MBh 6.15.38
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः
MBh 6.15.39
यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि
MBh 6.15.40
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम्
MBh 6.15.41
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम्
MBh 6.15.42
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः
MBh 6.15.43
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः
MBh 6.15.44
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् हतं शंससि भीष्मं मे किं नु दुःखमतः परम्
MBh 6.15.45
असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः जामदग्न्यस्तथा रामः परवीरनिघातिना
MBh 6.15.46
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः
MBh 6.15.47
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् परमास्त्रविदं वीरं जघान भरतर्षभम्
MBh 6.15.48
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः
MBh 6.15.49
योषेव हतवीरा मे सेना पुत्रस्य संजय अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम
MBh 6.15.50
पौरुषं सर्वलोकस्य परं यस्य महाहवे परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा
MBh 6.15.51
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु संजय घातयित्वा महावीर्यं पितरं लोकधार्मिकम्
MBh 6.15.52
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः
MBh 6.15.53
अद्रिसारमयं नूनं सुदृढं हृदयं मम यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
MBh 6.15.54
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि
MBh 6.15.55
न चास्त्रेण न शौर्येण तपसा मेधया न च न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते
MBh 6.15.56
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः यत्र शांतनवं भीष्मं हतं शंससि संजय
MBh 6.15.57
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात्
MBh 6.15.58
यदादित्यमिवापश्यत्पतितं भुवि संजय दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत
MBh 6.15.59
नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम्
MBh 6.15.60
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः यत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः
MBh 6.15.61
वयं वा राज्यमिच्छामो घातयित्वा पितामहम् क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः
MBh 6.15.62
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम्
MBh 6.15.63
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन्
MBh 6.15.64
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः कथं वा निहतो भीष्मः पिता संजय मे परैः
MBh 6.15.65
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्
MBh 6.15.66
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् शरशक्तिगदाखड्गतोमराक्षां भयावहाम्
MBh 6.15.67
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः
MBh 6.15.68
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय
MBh 6.15.69
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत्
MBh 6.15.70
आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय
MBh 6.15.71
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः
MBh 6.15.72
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र संजय
MBh 6.15.73
संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम् अपनीतं सुनीतं वा तन्ममाचक्ष्व संजय
MBh 6.15.74
यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः
MBh 6.15.75
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः क्रमेण येन यस्मिंश्च काले यच्च यथा च तत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 75 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.15local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷