🪷 Mahābhārata · Bhīṣma-Parva · Chapter 17

The Book of Bhīṣma · Parva 6 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 6.17.1
संजय उवाच यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः
MBh 6.17.2
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः
MBh 6.17.3
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि
MBh 6.17.4
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः लिप्समानाः शरीराणि मांसशोणितभोजनाः
MBh 6.17.5
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ
MBh 6.17.6
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ युयुधाते तवार्थाय यथा स समयः कृतः
MBh 6.17.7
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव समानीय महीपालानिदं वचनमब्रवीत्
MBh 6.17.8
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम्
MBh 6.17.9
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः संभावयत चात्मानमव्यग्रमनसो युधि
MBh 6.17.10
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः
MBh 6.17.11
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे यदाजौ निधनं याति सोऽस्य धर्मः सनातनः
MBh 6.17.12
एवमुक्ता महीपाला भीष्मेण भरतर्षभ निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः
MBh 6.17.13
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ
MBh 6.17.14
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः निर्ययुः सिंहनादेन नादयन्तो दिशो दश
MBh 6.17.15
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः तान्यनीकान्यशोभन्त रथैरथ पदातिभिः
MBh 6.17.16
भेरीपणवशब्दैश्च पटहानां च निस्वनैः रथनेमिनिनादैश्च बभूवाकुलिता मही
MBh 6.17.17
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव
MBh 6.17.18
तालेन महता भीष्मः पञ्चतारेण केतुना विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः
MBh 6.17.19
ये त्वदीया महेष्वासा राजानो भरतर्षभ अवर्तन्त यथादेशं राजञ्शांतनवस्य ते
MBh 6.17.20
स तु गोवासनः शैब्यः सहितः सर्वराजभिः ययौ मातङ्गराजेन राजार्हेण पताकिना पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः
MBh 6.17.21
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः
MBh 6.17.22
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः
MBh 6.17.23
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः
MBh 6.17.24
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह
MBh 6.17.25
अनेकशतसाहस्रमनीकमनुकर्षतः महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः
MBh 6.17.26
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः
MBh 6.17.27
स्यन्दनेन महार्हेण केतुना वृषभेण च प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ
MBh 6.17.28
तदङ्गपतिना गुप्तं कृपेण च महात्मना शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम्
MBh 6.17.29
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः शुशुभे केतुमुख्येन राजतेन जयद्रथः
MBh 6.17.30
शतं रथसहस्राणां तस्यासन्वशवर्तिनः अष्टौ नागसहस्राणि सादिनामयुतानि षट्
MBh 6.17.31
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् अनन्तरथनागाश्वमशोभत महद्बलम्
MBh 6.17.32
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च पतिः सर्वकलिङ्गानां ययौ केतुमता सह
MBh 6.17.33
तस्य पर्वतसंकाशा व्यरोचन्त महागजाः यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः
MBh 6.17.34
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः श्वेतच्छत्रेण निष्केण चामरव्यजनेन च
MBh 6.17.35
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् आस्थितः समरे राजन्मेघस्थ इव भानुमान्
MBh 6.17.36
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः भगदत्तो ययौ राजा यथा वज्रधरस्तथा
MBh 6.17.37
गजस्कन्धगतावास्तां भगदत्तेन संमितौ विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ
MBh 6.17.38
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः
MBh 6.17.39
द्रोणेन विहितो राजन्राज्ञा शांतनवेन च तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.17local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷