🪷 Mahābhārata · Bhīṣma-Parva · Chapter 115

The Book of Bhīṣma · Parva 6 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 65 Shlokas

MBh 6.115.1
धृतराष्ट्र उवाच कथमासंस्तदा योधा हीना भीष्मेण संजय बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा
MBh 6.115.2
तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे
MBh 6.115.3
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः
MBh 6.115.4
अश्मसारमयं नूनं हृदयं मम संजय श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते
MBh 6.115.5
पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा
MBh 6.115.6
यदद्य निहतेनाजौ भीष्मेण जयमिच्छता चेष्टितं नरसिंहेन तन्मे कथय संजय
MBh 6.115.7
संजय उवाच सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः
MBh 6.115.8
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले
MBh 6.115.9
हा हेति तुमुलः शब्दो भूतानां समपद्यत सीमावृक्षे निपतिते कुरूणां समितिक्षये
MBh 6.115.10
उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम् कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते
MBh 6.115.11
खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा ररास पृथिवी चैव भीष्मे शांतनवे हते
MBh 6.115.12
अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः इत्यभाषन्त भूतानि शयानं भरतर्षभम्
MBh 6.115.13
अयं पितरमाज्ञाय कामार्तं शंतनुं पुरा ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः
MBh 6.115.14
इति स्म शरतल्पस्थं भरतानाममध्यमम् ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः
MBh 6.115.15
हते शांतनवे भीष्मे भरतानां पितामहे न किंचित्प्रत्यपद्यन्त पुत्रास्तव च भारत
MBh 6.115.16
विवर्णवदनाश्चासन्गतश्रीकाश्च भारत अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः
MBh 6.115.17
पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान्
MBh 6.115.18
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ अपश्याम रणे राजन्भीमसेनं महाबलम् आक्रीडमानं कौन्तेयं हर्षेण महता युतम्
MBh 6.115.19
निहत्य समरे शत्रून्महाबलसमन्वितान् संमोहश्चापि तुमुलः कुरूणामभवत्तदा
MBh 6.115.20
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः तथा निपतिते भीष्मे कौरवाणां धुरंधरे हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत
MBh 6.115.21
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत्
MBh 6.115.22
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन्
MBh 6.115.23
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् दुःशासनं महाराज किमयं वक्ष्यतीति वै
MBh 6.115.24
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात्
MBh 6.115.25
स संज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् निवारयामास तदा स्वान्यनीकानि मारिष
MBh 6.115.26
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन्
MBh 6.115.27
विनिवृत्तेषु सैन्येषु पारंपर्येण सर्वशः विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः
MBh 6.115.28
व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः उपतस्थुर्महात्मानं प्रजापतिमिवामराः
MBh 6.115.29
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह
MBh 6.115.30
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् अभ्यभाषत धर्मात्मा भीष्मः शांतनवस्तदा
MBh 6.115.31
स्वागतं वो महाभागाः स्वागतं वो महारथाः तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः
MBh 6.115.32
अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम्
MBh 6.115.33
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च उपधानानि मुख्यानि नैच्छत्तानि पितामहः
MBh 6.115.34
अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः
MBh 6.115.35
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् धनंजयं दीर्घबाहुं सर्वलोकमहारथम्
MBh 6.115.36
धनंजय महाबाहो शिरसो मेऽस्य लम्बतः दीयतामुपधानं वै यद्युक्तमिह मन्यसे
MBh 6.115.37
स संन्यस्य महच्चापमभिवाद्य पितामहम् नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
MBh 6.115.38
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह
MBh 6.115.39
तमब्रवीच्छांतनवः शिरो मे तात लम्बते उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे
MBh 6.115.40
त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः
MBh 6.115.41
फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः
MBh 6.115.42
अनुमान्य महात्मानं भरतानाममध्यमम् त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः
MBh 6.115.43
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित्
MBh 6.115.44
उपधानेन दत्तेन प्रत्यनन्दद्धनंजयम् कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्
MBh 6.115.45
अनुरूपं शयानस्य पाण्डवोपहितं त्वया यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा
MBh 6.115.46
एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै
MBh 6.115.47
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान्
MBh 6.115.48
शयेयमस्यां शय्यायां यावदावर्तनं रवेः ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः
MBh 6.115.49
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि
MBh 6.115.50
परिखा खन्यतामत्र ममावसदने नृपाः उपासिष्ये विवस्वन्तमेवं शरशताचितः उपारमध्वं संग्रामाद्वैराण्युत्सृज्य पार्थिवाः
MBh 6.115.51
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः
MBh 6.115.52
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः
MBh 6.115.53
एवंगते न हीदानीं वैद्यैः कार्यमिहास्ति मे क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्
MBh 6.115.54
नैष धर्मो महीपालाः शरतल्पगतस्य मे एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः
MBh 6.115.55
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः
MBh 6.115.56
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः
MBh 6.115.57
उपधानं ततो दत्त्वा पितुस्तव जनेश्वर सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः
MBh 6.115.58
उपगम्य महात्मानं शयानं शयने शुभे तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम्
MBh 6.115.59
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः
MBh 6.115.60
निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम्
MBh 6.115.61
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः अवध्यो मानुषैरेष सत्यसंधो महारथः
MBh 6.115.62
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा
MBh 6.115.63
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् तव प्रसादाद्विजयः क्रोधात्तव पराजयः त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः
MBh 6.115.64
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव रक्षिता समरे नित्यं नित्यं चापि हिते रतः सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः
MBh 6.115.65
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 65 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.115local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷