🪷 Mahābhārata · Bhīṣma-Parva · Chapter 116
The Book of Bhīṣma · Parva 6 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 6.116.1
संजय उवाच
व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम्
MBh 6.116.2
तं वीरशयने वीरं शयानं कुरुसत्तमम्
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्
MBh 6.116.3
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः
स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः
समभ्ययुः शांतनवं भूतानीव तमोनुदम्
MBh 6.116.4
तूर्याणि गणिका वारास्तथैव नटनर्तकाः
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम्
MBh 6.116.5
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः
MBh 6.116.6
अन्वासत दुराधर्षं देवव्रतमरिंदमम्
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः
MBh 6.116.7
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्
MBh 6.116.8
विबभौ च नृपाणां सा पितामहमुपासताम्
देवानामिव देवेशं पितामहमुपासताम्
MBh 6.116.9
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ
अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत्
MBh 6.116.10
शराभितप्तकायोऽहं शरसंतापमूर्छितः
पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत
MBh 6.116.11
ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः
भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान्
MBh 6.116.12
उपनीतं च तद्दृष्ट्वा भीष्मः शांतनवोऽब्रवीत्
नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान्
MBh 6.116.13
उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम्
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः
MBh 6.116.14
एवमुक्त्वा शांतनवो दीनवाक्सर्वपार्थिवान्
धनंजयं महाबाहुमभ्यभाषत भारत
MBh 6.116.15
अथोपेत्य महाबाहुरभिवाद्य पितामहम्
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत्
MBh 6.116.16
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्
MBh 6.116.17
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः
मर्माणि परिदूयन्ते वदनं मम शुष्यति
MBh 6.116.18
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि
MBh 6.116.19
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः
MBh 6.116.20
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः
MBh 6.116.21
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्
MBh 6.116.22
संधाय च शरं दीप्तमभिमन्त्र्य महायशाः
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे
MBh 6.116.23
उत्पपात ततो धारा विमला वारिणः शिवा
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च
MBh 6.116.24
अतर्पयत्ततः पार्थः शीतया वारिधारया
भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः
MBh 6.116.25
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः
MBh 6.116.26
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम्
संप्रावेपन्त कुरवो गावः शीतार्दिता इव
MBh 6.116.27
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः
शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत्
MBh 6.116.28
तृप्तः शांतनवश्चापि राजन्बीभत्सुमब्रवीत्
सर्वपार्थिववीराणां संनिधौ पूजयन्निव
MBh 6.116.29
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन
कथितो नारदेनासि पूर्वर्षिरमितद्युतिः
MBh 6.116.30
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम्
MBh 6.116.31
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु
MBh 6.116.32
मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः
सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्
MBh 6.116.33
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्
MBh 6.116.34
न वै श्रुतं धार्तराष्ट्रेण वाक्यं; संबोध्यमानं विदुरेण चैव
द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः संजयेनापि चोक्तम्
MBh 6.116.35
परीतबुद्धिर्हि विसंज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे
स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः
MBh 6.116.36
ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव
तमब्रवीच्छांतनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः
MBh 6.116.37
दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता
जलस्य धारा जनिता शीतस्यामृतगन्धिनः
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते
MBh 6.116.38
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः
धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः
MBh 6.116.39
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनंजयः
कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन
न शक्याः पाण्डवास्तात युद्धे जेतुं कथंचन
MBh 6.116.40
अमानुषाणि कर्माणि यस्यैतानि महात्मनः
तेन सत्त्ववता संख्ये शूरेणाहवशोभिना
कृतिना समरे राजन्संधिस्ते तात युज्यताम्
MBh 6.116.41
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि
तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम्
MBh 6.116.42
यावच्चमूं न ते शेषां शरैः संनतपर्वभिः
नाशयत्यर्जुनस्तावत्संधिस्ते तात युज्यताम्
MBh 6.116.43
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः
नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम्
MBh 6.116.44
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम्
युधिष्ठिरो हि तावद्वै संधिस्ते तात युज्यताम्
MBh 6.116.45
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः
यावच्चमूं महाराज नाशयन्ति न सर्वशः
तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम्
MBh 6.116.46
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ
एतत्क्षेममहं मन्ये तव चैव कुलस्य च
MBh 6.116.47
त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन
भीष्मस्यान्तादस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन्प्रसीद
MBh 6.116.48
राज्यस्यार्धं दीयतां पाण्डवाना;मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु
मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र
MBh 6.116.49
ममावसानाच्छान्तिरस्तु प्रजानां; संगच्छन्तां पार्थिवाः प्रीतिमन्तः
पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रैतु राजन्
MBh 6.116.50
न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या
भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि
MBh 6.116.51
एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा
तूष्णीमासीच्छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 115
- Next chapter · Bhīṣma-Parva Ch 117 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.116local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷