🪷 Mahābhārata · Bhīṣma-Parva · Chapter 114

The Book of Bhīṣma · Parva 6 · 112 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 112 Shlokas

MBh 6.114.1
संजय उवाच एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् विव्यधुः समरे भीष्मं परिवार्य समन्ततः
MBh 6.114.2
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः
MBh 6.114.3
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः
MBh 6.114.4
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु
MBh 6.114.5
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः
MBh 6.114.6
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः युगान्ताग्निसमो भीष्मः परेषां समपद्यत
MBh 6.114.7
निपत्य रथसंघानामन्तरेण विनिःसृतः दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन्
MBh 6.114.8
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च पाण्डवानीकिनीमध्यमाससाद स वेगितः
MBh 6.114.9
ततः सात्यकिभीमौ च पाण्डवं च धनंजयम् द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम्
MBh 6.114.10
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः
MBh 6.114.11
तस्य ते निशितान्बाणान्संनिवार्य महारथाः दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा
MBh 6.114.12
शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः
MBh 6.114.13
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्
MBh 6.114.14
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः
MBh 6.114.15
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः
MBh 6.114.16
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान्
MBh 6.114.17
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये
MBh 6.114.18
हतानयत गृह्णीत युध्यतापि च कृन्तत इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति
MBh 6.114.19
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ
MBh 6.114.20
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः
MBh 6.114.21
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः
MBh 6.114.22
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् संग्रामे भरतश्रेष्ठ देवानां दानवैरिव
MBh 6.114.23
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे
MBh 6.114.24
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः
MBh 6.114.25
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः धनुर्भीष्मस्य चिच्छेद सव्यसाची परंतपः
MBh 6.114.26
स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् शक्तिं जग्राह संक्रुद्धो गिरीणामपि दारणीम् तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति
MBh 6.114.27
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः
MBh 6.114.28
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम्
MBh 6.114.29
सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा
MBh 6.114.30
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः
MBh 6.114.31
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः
MBh 6.114.32
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः
MBh 6.114.33
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः
MBh 6.114.34
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन्
MBh 6.114.35
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय
MBh 6.114.36
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः अनुलोमः सुगन्धी च पृषतैश्च समन्वितः
MBh 6.114.37
देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव
MBh 6.114.38
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा
MBh 6.114.39
संभ्रमश्च महानासीत्त्रिदशानां विशां पते पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा
MBh 6.114.40
इति देवगणानां च श्रुत्वा वाक्यं महामनाः ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः
MBh 6.114.41
शिखण्डी तु महाराज भरतानां पितामहम् आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः
MBh 6.114.42
स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः नाकम्पत महाराज क्षितिकम्पे यथाचलः
MBh 6.114.43
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
MBh 6.114.44
पुनः शरशतेनैनं त्वरमाणो धनंजयः सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्वताडयत्
MBh 6.114.45
एवमन्यैरपि भृशं वध्यमानो महारणे न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः
MBh 6.114.46
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्
MBh 6.114.47
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे सारथिं विशिखैश्चास्य दशभिः समकम्पयत्
MBh 6.114.48
सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् निमेषान्तरमात्रेण आत्तमात्तं महारणे
MBh 6.114.49
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत
MBh 6.114.50
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् सोऽतिविद्धो महेष्वासो दुःशासनमभाषत
MBh 6.114.51
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे
MBh 6.114.52
न चैष शक्यः समरे जेतुं वज्रभृता अपि न चापि सहिता वीरा देवदानवराक्षसाः मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः
MBh 6.114.53
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे
MBh 6.114.54
ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना
MBh 6.114.55
वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः
MBh 6.114.56
निकृन्तमाना मर्माणि दृढावरणभेदिनः मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः
MBh 6.114.57
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः
MBh 6.114.58
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः
MBh 6.114.59
नाशयन्तीव मे प्राणान्यमदूता इवाहिताः गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः
MBh 6.114.60
कृन्तन्ति मम गात्राणि माघमासे गवामिव अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः
MBh 6.114.61
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम्
MBh 6.114.62
इति ब्रुवञ्शांतनवो दिधक्षुरिव पाण्डवम् सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत
MBh 6.114.63
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् पश्यतां कुरुवीराणां सर्वेषां तत्र भारत
MBh 6.114.64
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा
MBh 6.114.65
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः रथादनवरूढस्य तदद्भुतमिवाभवत्
MBh 6.114.66
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि
MBh 6.114.67
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा
MBh 6.114.68
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः सिंहनादस्ततो घोरः पाण्डवानामजायत
MBh 6.114.69
तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे
MBh 6.114.70
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे
MBh 6.114.71
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव सैन्यानां युध्यमानानां निघ्नतामितरेतरम्
MBh 6.114.72
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् समं च विषमं चैव न प्राज्ञायत किंचन
MBh 6.114.73
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु
MBh 6.114.74
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनंजयः मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम्
MBh 6.114.75
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनंजयात् पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात्
MBh 6.114.76
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
MBh 6.114.77
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह द्वादशैते जनपदाः शरार्ता व्रणपीडिताः संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना
MBh 6.114.78
ततस्तमेकं बहवः परिवार्य समन्ततः परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन्
MBh 6.114.79
निपातयत गृह्णीत विध्यताथ च कर्षत इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति
MBh 6.114.80
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम्
MBh 6.114.81
एवं विभो तव पिता शरैर्विशकलीकृतः शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम्
MBh 6.114.82
हा हेति दिवि देवानां पार्थिवानां च सर्वशः पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः
MBh 6.114.83
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः
MBh 6.114.84
स पपात महाबाहुर्वसुधामनुनादयन् इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् धरणीं नास्पृशच्चापि शरसंघैः समाचितः
MBh 6.114.85
शरतल्पे महेष्वासं शयानं पुरुषर्षभम् रथात्प्रपतितं चैनं दिव्यो भावः समाविशत्
MBh 6.114.86
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी पतन्स ददृशे चापि खर्वितं च दिवाकरम्
MBh 6.114.87
संज्ञां चैवालभद्वीरः कालं संचिन्त्य भारत अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः
MBh 6.114.88
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने
MBh 6.114.89
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् धारयामास च प्राणान्पतितोऽपि हि भूतले उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः
MBh 6.114.90
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता महर्षीन्हंसरूपेण प्रेषयामास तत्र वै
MBh 6.114.91
ततः संपातिनो हंसास्त्वरिता मानसौकसः आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः
MBh 6.114.92
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम्
MBh 6.114.93
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्
MBh 6.114.94
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः भीष्म एव महात्मा सन्संस्थाता दक्षिणायने
MBh 6.114.95
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत
MBh 6.114.96
तानब्रवीच्छांतनवो नाहं गन्ता कथंचन दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम्
MBh 6.114.97
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः
MBh 6.114.98
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने
MBh 6.114.99
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा
MBh 6.114.100
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः
MBh 6.114.101
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे
MBh 6.114.102
तस्मिन्हते महासत्त्वे भरतानाममध्यमे न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ संमोहश्चैव तुमुलः कुरूणामभवत्तदा
MBh 6.114.103
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः
MBh 6.114.104
दध्युश्चैव महाराज न युद्धे दधिरे मनः ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान्
MBh 6.114.105
अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि अभावः सुमहान्राजन्कुरूनागादतन्द्रितः
MBh 6.114.106
हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना
MBh 6.114.107
पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर
MBh 6.114.108
ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः आस्फोटयामास भृशं भीमसेनो ननर्त च
MBh 6.114.109
सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः
MBh 6.114.110
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन्
MBh 6.114.111
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे
MBh 6.114.112
महोपनिषदं चैव योगमास्थाय वीर्यवान् जपञ्शांतनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 112 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.114local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷