🪷 Mahābhārata · Bhīṣma-Parva · Chapter 113
The Book of Bhīṣma · Parva 6 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 6.113.1
संजय उवाच
एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत
MBh 6.113.2
न ह्यनीकमनीकेन समसज्जत संकुले
न रथा रथिभिः सार्धं न पदाताः पदातिभिः
MBh 6.113.3
अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः
महान्व्यतिकरो रौद्रः सेनयोः समपद्यत
MBh 6.113.4
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः
क्षये तस्मिन्महारौद्रे निर्विशेषमजायत
MBh 6.113.5
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत
दुःशासनो विकर्णश्च रथानास्थाय सत्वराः
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन्
MBh 6.113.6
सा वध्यमाना समरे पाण्डुसेना महात्मभिः
त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले
MBh 6.113.7
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति
तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत
MBh 6.113.8
अतीव तव सैन्यस्य पार्थेन च महात्मना
नगमेघप्रतीकाशाः पातिता बहुधा गजाः
MBh 6.113.9
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः
MBh 6.113.10
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः
आबद्धाभरणैः कायैर्निहतानां महात्मनाम्
MBh 6.113.11
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये
भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये
MBh 6.113.12
ते पराक्रान्तमालोक्य राजन्युधि पितामहम्
न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः
MBh 6.113.13
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम्
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये
MBh 6.113.14
पाण्डवापि महाराज स्मरन्तो विविधान्बहून्
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप
MBh 6.113.15
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत्
MBh 6.113.16
सेनापतिस्तु समरे प्राह सेनां महारथः
अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह
MBh 6.113.17
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः
अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः
MBh 6.113.18
वध्यमानस्ततो राजन्पिता शांतनवस्तव
अमर्षवशमापन्नो योधयामास सृञ्जयान्
MBh 6.113.19
तस्य कीर्तिमतस्तात पुरा रामेण धीमता
संप्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी
MBh 6.113.20
स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम्
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः
भीष्मो दश सहस्राणि जघान परवीरहा
MBh 6.113.21
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ
भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे
गजाश्वममितं हत्वा हताः सप्त महारथाः
MBh 6.113.22
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः
नराणां च महायुद्धे सहस्राणि चतुर्दश
MBh 6.113.23
तथा दन्तिसहस्रं च हयानामयुतं पुनः
शिक्षाबलेन निहतं पित्रा तव विशां पते
MBh 6.113.24
ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम्
विराटस्य प्रियो भ्राता शतानीको निपातितः
MBh 6.113.25
शतानीकं च समरे हत्वा भीष्मः प्रतापवान्
सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत्
MBh 6.113.26
ये च केचन पार्थानामभियाता धनंजयम्
राजानो भीष्ममासाद्य गतास्ते यमसादनम्
MBh 6.113.27
एवं दश दिशो भीष्मः शरजालैः समन्ततः
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे
MBh 6.113.28
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि
सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः
MBh 6.113.29
न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम्
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि
MBh 6.113.30
यथा दैत्यचमूं शक्रस्तापयामास संयुगे
तथा भीष्मः पाण्डवेयांस्तापयामास भारत
MBh 6.113.31
तथा च तं पराक्रान्तमालोक्य मधुसूदनः
उवाच देवकीपुत्रः प्रीयमाणो धनंजयम्
MBh 6.113.32
एष शांतनवो भीष्मः सेनयोरन्तरे स्थितः
नानिहत्य बलादेनं विजयस्ते भविष्यति
MBh 6.113.33
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो
MBh 6.113.34
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः
MBh 6.113.35
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्
शरव्रातैः शरव्रातान्बहुधा विदुधाव तान्
MBh 6.113.36
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
MBh 6.113.37
यमौ च चेकितानश्च केकयाः पञ्च चैव ह
सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः
MBh 6.113.38
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान्
सुशर्मा च विराटश्च पाण्डवेया महाबलाः
MBh 6.113.39
एते चान्ये च बहवः पीडिता भीष्मसायकैः
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे
MBh 6.113.40
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना
MBh 6.113.41
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित्
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः
MBh 6.113.42
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना
MBh 6.113.43
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः
दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः
MBh 6.113.44
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः
बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः
MBh 6.113.45
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम्
कृत्वा शरविघातं च क्रीडन्निव पितामहः
MBh 6.113.46
नाभिसंधत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः
जघान द्रुपदानीके रथान्सप्त महारथः
MBh 6.113.47
ततः किलकिलाशब्दः क्षणेन समपद्यत
मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम्
MBh 6.113.48
ते वराश्वरथव्रातैर्वारणैः सपदातिभिः
तमेकं छादयामासुर्मेघा इव दिवाकरम्
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून्
MBh 6.113.49
ततस्तस्य च तेषां च युद्धे देवासुरोपमे
किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 112
- Next chapter · Bhīṣma-Parva Ch 114 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.113local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷