🪷 Mahābhārata · Bhīṣma-Parva · Chapter 112

The Book of Bhīṣma · Parva 6 · 138 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 138 Shlokas

MBh 6.112.1
संजय उवाच अभिमन्युर्महाराज तव पुत्रमयोधयत् महत्या सेनया युक्तो भीष्महेतोः पराक्रमी
MBh 6.112.2
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः
MBh 6.112.3
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति
MBh 6.112.4
तामापतन्तीं सहसा घोररूपां विशां पते द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः
MBh 6.112.5
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
MBh 6.112.6
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम्
MBh 6.112.7
तद्युद्धमभवद्घोरं चित्ररूपं च भारत ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम्
MBh 6.112.8
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ
MBh 6.112.9
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः आजघानोरसि क्रुद्धो नाराचेन परंतपः
MBh 6.112.10
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः
MBh 6.112.11
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत्
MBh 6.112.12
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः
MBh 6.112.13
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे बहुधा दारयां चक्रे महेष्वासं महारथम्
MBh 6.112.14
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः
MBh 6.112.15
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ननाद बलवन्नादं विव्याध दशभिः शरैः
MBh 6.112.16
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः आजघान महाराज त्रिसप्तत्या शिलीमुखैः
MBh 6.112.17
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ महता शरवर्षेण परस्परमवर्षताम्
MBh 6.112.18
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत विरथावसियुद्धाय संगतौ तौ महारथौ
MBh 6.112.19
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ
MBh 6.112.20
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ वाशितासंगमे यत्तौ सिंहाविव महावने
MBh 6.112.21
मण्डलानि विचित्राणि गतप्रत्यागतानि च चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम्
MBh 6.112.22
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.112.23
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् आजघान शिताग्रेण जत्रुदेशे महासिना
MBh 6.112.24
तावन्योन्यं महाराज समासाद्य महाहवे अन्योन्यवेगाभिहतौ निपेततुररिंदमौ
MBh 6.112.25
ततः स्वरथमारोप्य पौरवं तनयस्तव जयत्सेनो रथे राजन्नपोवाह रणाजिरात्
MBh 6.112.26
धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः अपोवाह रणे राजन्सहदेवः प्रतापवान्
MBh 6.112.27
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः
MBh 6.112.28
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते दशभिर्दशभिश्चैव विव्याध निशितैः शरैः
MBh 6.112.29
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत भीष्मस्य समरे राजन्यशो मानं च वर्धयन्
MBh 6.112.30
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः
MBh 6.112.31
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः नाकम्पयत संग्रामे विव्याध च पुनः पुनः
MBh 6.112.32
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः
MBh 6.112.33
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः
MBh 6.112.34
तयोर्युद्धं समभवद्भीष्महेतोः परंतप संरब्धयोर्महाराज समरे चित्रयोधिनोः यथा देवासुरे युद्धे मयवासवयोरभूत्
MBh 6.112.35
भीमसेनो गजानीकं योधयन्बह्वशोभत यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान्
MBh 6.112.36
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः निपेतुरुर्व्यां सहिता नादयन्तो वसुंधराम्
MBh 6.112.37
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः
MBh 6.112.38
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे महत्या सेनया गुप्तं पीडयामास संगतः
MBh 6.112.39
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् पीडयामास संरब्धो भीष्महेतोः पराक्रमी
MBh 6.112.40
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत्
MBh 6.112.41
विराटश्च महाराज सैन्धवं वाहिनीमुखे त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे
MBh 6.112.42
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ
MBh 6.112.43
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे महासमुदयं चक्रे शरैः संनतपर्वभिः
MBh 6.112.44
ततो द्रोणो महाराज पार्षतस्य महद्धनुः छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत
MBh 6.112.45
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान्
MBh 6.112.46
ताञ्शराञ्शरसंघैस्तु संनिवार्य महारथः द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान्
MBh 6.112.47
तस्य क्रुद्धो महाराज पार्षतः परवीरहा द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे
MBh 6.112.48
तामापतन्तीं सहसा हेमपट्टविभूषिताम् शरैः पञ्चाशता द्रोणो वारयामास संयुगे
MBh 6.112.49
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः चूर्णीकृता विशीर्यन्ती पपात वसुधातले
MBh 6.112.50
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम्
MBh 6.112.51
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत पार्षतं च महेष्वासं पीडयामास संयुगे
MBh 6.112.52
एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् भीष्मं प्रति महाराज घोररूपं भयानकम्
MBh 6.112.53
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम्
MBh 6.112.54
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् त्रिधा भिन्नेन नागेन मदान्धेन महाबलः
MBh 6.112.55
तमापतन्तं सहसा महेन्द्रगजसंनिभम् परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत
MBh 6.112.56
ततो गजगतो राजा भगदत्तः प्रतापवान् अर्जुनं शरवर्षेण वारयामास संयुगे
MBh 6.112.57
अर्जुनस्तु रणे नागमायान्तं रजतोपमम् विमलैरायसैस्तीक्ष्णैरविध्यत महारणे
MBh 6.112.58
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत्
MBh 6.112.59
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति
MBh 6.112.60
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत
MBh 6.112.61
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत्
MBh 6.112.62
नानाविधान्यनीकानि पुत्राणां ते जनाधिप अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः
MBh 6.112.63
शिखण्डी तु समासाद्य भरतानां पितामहम् इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत्
MBh 6.112.64
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् न्यवारयत सैन्यं च पाण्डवानां महारथः
MBh 6.112.65
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः शरसंघमहाज्वालः क्षत्रियान्समरेऽदहत्
MBh 6.112.66
यथा हि सुमहानग्निः कक्षे चरति सानिलः तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन्
MBh 6.112.67
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः
MBh 6.112.68
पातयन्रथिनो राजन्गजांश्च सह सादिभिः मुण्डतालवनानीव चकार स रथव्रजान्
MBh 6.112.69
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः
MBh 6.112.70
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः
MBh 6.112.71
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः
MBh 6.112.72
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः वातायमानान्पश्याम ह्रियमाणान्विशां पते
MBh 6.112.73
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः
MBh 6.112.74
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्
MBh 6.112.75
न तत्रासीन्महाराज सोमकानां महारथः यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे
MBh 6.112.76
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम्
MBh 6.112.77
न कश्चिदेनं समरे प्रत्युद्याति महारथः ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् शिखण्डिनं च समरे पाञ्चाल्यममितौजसम्
MBh 6.112.78
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ दशभिर्दशभिर्बाणैराजघान महाहवे
MBh 6.112.79
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा अवैक्षत कटाक्षेण निर्दहन्निव भारत
MBh 6.112.80
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः न जघान रणे भीष्मः स च तं नावबुद्धवान्
MBh 6.112.81
अर्जुनस्तु महाराज शिखण्डिनमभाषत अभित्वरस्व त्वरितो जहि चैनं पितामहम्
MBh 6.112.82
किं ते विवक्षया वीर जहि भीष्मं महारथम् न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले
MBh 6.112.83
यः शक्तः समरे भीष्मं योधयेत पितामहम् ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते
MBh 6.112.84
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत्
MBh 6.112.85
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव अर्जुनं समरे क्रुद्धं वारयामास सायकैः
MBh 6.112.86
तथैव च चमूं सर्वां पाण्डवानां महारथः अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष
MBh 6.112.87
तथैव पाण्डवा राजन्सैन्येन महता वृताः भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम्
MBh 6.112.88
स समन्तात्परिवृतो भारतो भरतर्षभ निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन्
MBh 6.112.89
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् अयोधयत यत्पार्थं जुगोप च यतव्रतम्
MBh 6.112.90
कर्मणा तेन समरे तव पुत्रस्य धन्विनः दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः
MBh 6.112.91
यदेकः समरे पार्थान्सानुगान्समयोधयत् न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम्
MBh 6.112.92
दुःशासनेन समरे रथिनो विरथीकृताः सादिनश्च महाराज दन्तिनश्च महाबलाः
MBh 6.112.93
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः
MBh 6.112.94
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन्
MBh 6.112.95
तं भारतमहामात्रं पाण्डवानां महारथः जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचन ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम्
MBh 6.112.96
स हि तं समरे राजन्विजित्य विजयोऽर्जुनः भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः
MBh 6.112.97
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः अर्जुनं च रणे राजन्योधयन्स व्यराजत
MBh 6.112.98
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः
MBh 6.112.99
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा
MBh 6.112.100
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः
MBh 6.112.101
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम्
MBh 6.112.102
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः
MBh 6.112.103
भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित् ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत
MBh 6.112.104
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च
MBh 6.112.105
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे
MBh 6.112.106
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः
MBh 6.112.107
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः अर्जुनं प्रति संयत्ता बलवन्तो महारथाः
MBh 6.112.108
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह अभिपेतुर्निषादाश्च सौवीराश्च महारणे
MBh 6.112.109
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
MBh 6.112.110
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह अभिपेतू रणे पार्थं पतंगा इव पावकम्
MBh 6.112.111
स तान्सर्वान्सहानीकान्महाराज महारथान् दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः
MBh 6.112.112
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः शरप्रतापैर्बीभत्सुः पतंगानिव पावकः
MBh 6.112.113
तस्य बाणसहस्राणि सृजतो दृढधन्विनः दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत
MBh 6.112.114
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः नाभ्यवर्तन्त राजानः सहिता वानरध्वजम्
MBh 6.112.115
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह गजाः सह गजारोहैः किरीटिशरताडिताः
MBh 6.112.116
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुंधरा विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः
MBh 6.112.117
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् दुःशासनाय समरे प्रेषयामास सायकान्
MBh 6.112.118
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत्
MBh 6.112.119
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो आजघान भृशं चैव पञ्चभिर्नतपर्वभिः
MBh 6.112.120
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः
MBh 6.112.121
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष दुःशासनो विकर्णश्च तथैव च विविंशतिः संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना
MBh 6.112.122
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् प्रजज्वाल रणे पार्थो विधूम इव पावकः
MBh 6.112.123
तथैव शरवर्षेण भास्करो रश्मिवानिव अन्यानपि महाराज पातयामास पार्थिवान्
MBh 6.112.124
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् प्रावर्तयत संग्रामे शोणितोदां महानदीम् मध्येन कुरुसैन्यानां पाण्डवानां च भारत
MBh 6.112.125
गजाश्च रथसंघाश्च बहुधा रथिभिर्हताः रथाश्च निहता नागैर्नागा हयपदातिभिः
MBh 6.112.126
अन्तरा छिध्यमानानि शरीराणि शिरांसि च निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम्
MBh 6.112.127
छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः
MBh 6.112.128
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः
MBh 6.112.129
गजाश्वरथसंघाश्च परिपेतुः समन्ततः विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः
MBh 6.112.130
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम्
MBh 6.112.131
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः
MBh 6.112.132
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च
MBh 6.112.133
काञ्चनानि च दामानि पताकाश्च महाधनाः धूमायमाना दृश्यन्ते सहसा मारुतेरिताः
MBh 6.112.134
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः
MBh 6.112.135
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः समन्ततो व्यदृश्यन्त पतिता धरणीतले
MBh 6.112.136
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम्
MBh 6.112.137
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः संजहार ततो भीष्मस्तदस्त्रं पावकोपमम्
MBh 6.112.138
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 138 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.112local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷