🪷 Mahābhārata · Bhīṣma-Parva · Chapter 108

The Book of Bhīṣma · Parva 6 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 6.108.1
संजय उवाच अथ वीरो महेष्वासो मत्तवारणविक्रमः समादाय महच्चापं मत्तवारणवारणम्
MBh 6.108.2
विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् पृतनां पाण्डवेयानां पातयानो महारथः
MBh 6.108.3
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत
MBh 6.108.4
अयं स दिवसस्तात यत्र पार्थो महारथः जिघांसुः समरे भीष्मं परं यत्नं करिष्यति
MBh 6.108.5
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः
MBh 6.108.6
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति
MBh 6.108.7
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः रसते व्यथते भूमिरनुष्टनति वाहनम्
MBh 6.108.8
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम्
MBh 6.108.9
पपात महती चोल्का मध्येनादित्यमण्डलात् सकबन्धश्च परिघो भानुमावृत्य तिष्ठति
MBh 6.108.10
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् वेदयानो भयं घोरं राज्ञां देहावकर्तनम्
MBh 6.108.11
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
MBh 6.108.12
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः
MBh 6.108.13
वपूंषि च नरेन्द्राणां विगतानीव लक्षये धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः
MBh 6.108.14
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः
MBh 6.108.15
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे अपास्यान्यान्रणे योधानभ्यस्यति पितामहम्
MBh 6.108.16
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्
MBh 6.108.17
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः
MBh 6.108.18
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्
MBh 6.108.19
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः न चामङ्गलकेतोः स प्रहरेदापगासुतः
MBh 6.108.20
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत्
MBh 6.108.21
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम्
MBh 6.108.22
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः
MBh 6.108.23
अजेयः समरे चैव देवैरपि सवासवैः बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः
MBh 6.108.24
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम्
MBh 6.108.25
पश्य चैतन्महाबाहो वैशसं समुपस्थितम् हेमचित्राणि शूराणां महान्ति च शुभानि च
MBh 6.108.26
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च
MBh 6.108.27
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना
MBh 6.108.28
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च
MBh 6.108.29
हयनागरथावर्तां महाघोरां सुदुस्तराम् रथेन संग्रामनदीं तरत्येष कपिध्वजः
MBh 6.108.30
ब्रह्मण्यता दमो दानं तपश्च चरितं महत् इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः
MBh 6.108.31
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः
MBh 6.108.32
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः तपोदग्धशरीरस्य कोपो दहति भारतान्
MBh 6.108.33
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः
MBh 6.108.34
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम्
MBh 6.108.35
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम्
MBh 6.108.36
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः
MBh 6.108.37
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ परिरक्षन्ति राजानं यमौ च मनुजेश्वरम्
MBh 6.108.38
उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः एष गच्छत्यनीकानि द्वितीय इव फल्गुनः
MBh 6.108.39
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम्
MBh 6.108.40
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे
MBh 6.108.41
एष चापि रणे भीष्मो दहते वै महाचमूम् युद्धे सुसदृशस्तात यमस्य वरुणस्य च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.108local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷