🪷 Mahābhārata · Bhīṣma-Parva · Chapter 109

The Book of Bhīṣma · Parva 6 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 48 Shlokas

MBh 6.109.1
संजय उवाच भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः
MBh 6.109.2
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा दशैते तावका योधा भीमसेनमयोधयन्
MBh 6.109.3
महत्या सेनया युक्ता नानादेशसमुत्थया भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः
MBh 6.109.4
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः
MBh 6.109.5
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन्
MBh 6.109.6
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः
MBh 6.109.7
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः
MBh 6.109.8
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः कृपस्य सशरं चापं मध्ये चिच्छेद भारत अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः
MBh 6.109.9
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः
MBh 6.109.10
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः
MBh 6.109.11
अथान्यद्धनुरादाय गौतमो रथिनां वरः भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः
MBh 6.109.12
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् गौतमं ताडयामास शरैर्बहुभिराहवे
MBh 6.109.13
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः
MBh 6.109.14
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे
MBh 6.109.15
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः
MBh 6.109.16
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः चित्रसेनरथं राजन्नारुरोह त्वरान्वितः
MBh 6.109.17
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः
MBh 6.109.18
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.109.19
कृपश्च कृतवर्मा च भगदत्तश्च मारिष विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे
MBh 6.109.20
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः
MBh 6.109.21
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः
MBh 6.109.22
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि
MBh 6.109.23
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
MBh 6.109.24
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ताडयामास समरे सिंहवच्च ननाद च
MBh 6.109.25
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन्
MBh 6.109.26
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः
MBh 6.109.27
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम्
MBh 6.109.28
ततस्तु सशरं चापं सात्वतस्य महात्मनः क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत्
MBh 6.109.29
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् आजघान भ्रुवोर्मध्ये नाराचेन परंतप
MBh 6.109.30
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः
MBh 6.109.31
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः
MBh 6.109.32
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः
MBh 6.109.33
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः
MBh 6.109.34
तस्य शक्तिं महावेगां भगदत्तो महारथः चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम्
MBh 6.109.35
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे
MBh 6.109.36
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा
MBh 6.109.37
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत्
MBh 6.109.38
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः
MBh 6.109.39
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः
MBh 6.109.40
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत्
MBh 6.109.41
ततो धनंजयस्तत्र वर्तमाने महारणे जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् निघ्नन्तं समरे शत्रून्योधयानं च सायकैः
MBh 6.109.42
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ
MBh 6.109.43
अथार्जुनो रणे भीष्मं योधयन्वै महारथम् भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्
MBh 6.109.44
आससाद रणे योधांस्तावकान्दश भारत ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया
MBh 6.109.45
ततो दुर्योधनो राजा सुशर्माणमचोदयत् अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः
MBh 6.109.46
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ
MBh 6.109.47
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ
MBh 6.109.48
रथैरनेकसाहस्रैः परिवव्रे समन्ततः ततः प्रववृते युद्धमर्जुनस्य परैः सह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 48 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.109local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷