🪷 Mahābhārata · Bhīṣma-Parva · Chapter 107
The Book of Bhīṣma · Parva 6 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 55 Shlokas
MBh 6.107.1
संजय उवाच
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे
MBh 6.107.2
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः
आजघान रणे राजन्प्रहसन्निव भारत
MBh 6.107.3
तथैव राक्षसो राजन्माधवं निशितैः शरैः
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम्
MBh 6.107.4
शैनेयः शरसंघं तु प्रेषयामास संयुगे
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा
MBh 6.107.5
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च
MBh 6.107.6
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च
MBh 6.107.7
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः
ताडयामास समरे तोत्त्रैरिव महागजम्
MBh 6.107.8
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः
MBh 6.107.9
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः
चिच्छेद शितधारेण भल्लेन कृतहस्तवत्
MBh 6.107.10
अथान्यद्धनुरादाय वेगवत्परवीरहा
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः
MBh 6.107.11
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम्
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै
MBh 6.107.12
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम्
सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः
सा पपात तदा भूमौ महोल्केव हतप्रभा
MBh 6.107.13
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते
महता रथवंशेन वारयामास माधवम्
MBh 6.107.14
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह
MBh 6.107.15
तथा कुरुत कौरव्या यथा वः सात्यको युधि
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम्
MBh 6.107.16
तत्तथेति वचस्तस्य परिगृह्य महारथाः
शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा
MBh 6.107.17
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे
काम्बोजराजो बलवान्वारयामास संयुगे
MBh 6.107.18
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम्
MBh 6.107.19
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम्
MBh 6.107.20
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे
यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः
MBh 6.107.21
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ
MBh 6.107.22
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः
ततः प्रववृते युद्धं तव तेषां च भारत
MBh 6.107.23
विराटो दशभिर्भल्लैराजघान परंतप
यतमानं महेष्वासं द्रौणिमाहवशोभिनम्
MBh 6.107.24
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम्
MBh 6.107.25
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ
MBh 6.107.26
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्
यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि
MBh 6.107.27
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्
MBh 6.107.28
कृपश्च समरे राजन्माद्रीपुत्रं महारथम्
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः
MBh 6.107.29
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः
MBh 6.107.30
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम्
MBh 6.107.31
तथैव पाण्डवो राजञ्शारद्वतममर्षणम्
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया
तयोर्युद्धं समभवद्घोररूपं भयावहम्
MBh 6.107.32
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः
विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम्
MBh 6.107.33
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः
MBh 6.107.34
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव
MBh 6.107.35
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्
दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी
MBh 6.107.36
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम्
आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः
MBh 6.107.37
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि
MBh 6.107.38
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम्
हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम्
MBh 6.107.39
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः
पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे
MBh 6.107.40
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
MBh 6.107.41
तयोः समभवद्युद्धं भीष्महेतोर्महारणे
अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः
MBh 6.107.42
भीमसेनमथायान्तं भीष्मं प्रति महाबलम्
भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.107.43
सौमदत्तिरथो भीममाजघान स्तनान्तरे
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे
MBh 6.107.44
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम
MBh 6.107.45
तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान्
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः
MBh 6.107.46
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम्
तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम्
कृतप्रतिकृते यत्तौ योधयामासतू रणे
MBh 6.107.47
युधिष्ठिरं महाराज महत्या सेनया वृतम्
भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत्
MBh 6.107.48
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष
MBh 6.107.49
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे
द्रोणेन वारिता यत्ता न चचाल पदात्पदम्
MBh 6.107.50
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत्
MBh 6.107.51
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः
चेकितानं परं शक्त्या योधयामास भारत
MBh 6.107.52
तथैव चेकितानोऽपि चित्रसेनमयोधयत्
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे
MBh 6.107.53
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते
विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह
MBh 6.107.54
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्
कथं भीष्मं परो हन्यादिति निश्चित्य भारत
MBh 6.107.55
सा वध्यमाना समरे पुत्रस्य तव वाहिनी
लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 106
- Next chapter · Bhīṣma-Parva Ch 108 →
Sources and Connected Readings
Continue from these 55 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.107local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷