🪷 Mahābhārata · Bhīṣma-Parva · Chapter 106
The Book of Bhīṣma · Parva 6 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 6.106.1
संजय उवाच
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम्
शिखण्डिनमथोवाच समभ्येहि पितामहम्
MBh 6.106.2
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्
MBh 6.106.3
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
MBh 6.106.4
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम्
MBh 6.106.5
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः
MBh 6.106.6
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान्
तथेतराणि सैन्यानि सर्वाण्येव विशां पते
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
MBh 6.106.7
प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान्
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु
MBh 6.106.8
चित्रसेनो महाराज चेकितानं समभ्ययात्
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा
MBh 6.106.9
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत्
MBh 6.106.10
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम्
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत्
MBh 6.106.11
तथैव नकुलं वीरं किरन्तं सायकान्बहून्
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम्
MBh 6.106.12
सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति
वारयामास संक्रुद्धः कृपः शारद्वतो युधि
MBh 6.106.13
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम्
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली
MBh 6.106.14
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत्
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत्
MBh 6.106.15
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ
अश्वत्थामा ततः क्रुद्धो वारयामास भारत
MBh 6.106.16
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम्
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्
MBh 6.106.17
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम्
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश
दुःशासनो महेष्वासो वारयामास संयुगे
MBh 6.106.18
अन्ये च तावका योधाः पाण्डवानां महारथान्
भीष्मायाभिमुखं यातान्वारयामासुराहवे
MBh 6.106.19
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः
अभिद्रवत संरब्धा भीष्ममेकं महाबलम्
MBh 6.106.20
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः
MBh 6.106.21
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः
MBh 6.106.22
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति
MBh 6.106.23
आगच्छतस्तान्समरे वार्योघान्प्रबलानिव
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः
MBh 6.106.24
दुःशासनो महाराज भयं त्यक्त्वा महारथः
भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत्
MBh 6.106.25
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान्
MBh 6.106.26
तत्राद्भुतमपश्याम चित्ररूपं विशां पते
दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत
MBh 6.106.27
यथा वारयते वेला क्षुभितं वै महार्णवम्
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्
MBh 6.106.28
उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत
MBh 6.106.29
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ
समीयतुर्महासंख्ये मयशक्रौ यथा पुरा
MBh 6.106.30
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः
वासुदेवं च विंशत्या ताडयामास संयुगे
MBh 6.106.31
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम्
दुःशासनं शतेनाजौ नाराचानां समार्पयत्
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
MBh 6.106.32
दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः
MBh 6.106.33
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः
MBh 6.106.34
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव
MBh 6.106.35
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः
पर्वणीव सुसंक्रुद्धो राहुरुग्रो निशाकरम्
MBh 6.106.36
पीड्यमानो बलवता पुत्रस्तव विशां पते
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः
MBh 6.106.37
तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः
MBh 6.106.38
सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत्
MBh 6.106.39
तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून्
MBh 6.106.40
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव
यतमानस्य पार्थस्य तदद्भुतमिवाभवत्
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव
MBh 6.106.41
ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके
प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान्
MBh 6.106.42
न्यमज्जंस्ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तडागं प्राप्य भारत
MBh 6.106.43
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत्
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा
MBh 6.106.44
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते
अवारयत्ततः शूरो भूय एव पराक्रमी
MBh 6.106.45
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम्
निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 105
- Next chapter · Bhīṣma-Parva Ch 107 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.106local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷