🪷 Mahābhārata · Bhīṣma-Parva · Chapter 105
The Book of Bhīṣma · Parva 6 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 6.105.1
धृतराष्ट्र उवाच
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम्
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम्
MBh 6.105.2
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम्
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः
MBh 6.105.3
कथं शांतनवो भीष्मः स तस्मिन्दशमेऽहनि
अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः
MBh 6.105.4
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम्
कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः
MBh 6.105.5
संजय उवाच
नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत्
युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ
निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः
MBh 6.105.6
अनेकशतसाहस्रास्तावकानां महारथाः
रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्
MBh 6.105.7
यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः
पार्थानामकरोद्भीष्मः सततं समितिक्षयम्
MBh 6.105.8
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः
पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन्
MBh 6.105.9
दशमेऽहनि संप्राप्ते तताप रिपुवाहिनीम्
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः
MBh 6.105.10
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज
अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम्
MBh 6.105.11
अथोपायान्महाराज सव्यसाची परंतपः
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः
MBh 6.105.12
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे
MBh 6.105.13
तस्य शब्देन वित्रस्तास्तावका भरतर्षभ
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात्
MBh 6.105.14
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम्
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः
MBh 6.105.15
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः
दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम्
MBh 6.105.16
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः
पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे
MBh 6.105.17
यथा पशुगणान्पालः संकालयति कानने
तथेदं मामकं सैन्यं काल्यते शत्रुतापन
MBh 6.105.18
धनंजयशरैर्भग्नं द्रवमाणमितस्ततः
भीमो ह्येष दुराधर्षो विद्रावयति मे बलम्
MBh 6.105.19
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ
अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम
MBh 6.105.20
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः
व्यद्रावयेतां सहसा सैन्यं मम महाबलौ
MBh 6.105.21
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत
MBh 6.105.22
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम
पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव
MBh 6.105.23
एवमुक्तो महाराज पिता देवव्रतस्तव
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः
MBh 6.105.24
दुर्योधन विजानीहि स्थिरो भव विशां पते
पूर्वकालं तव मया प्रतिज्ञातं महाबल
MBh 6.105.25
हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम्
संग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम्
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ
MBh 6.105.26
अद्य चापि महत्कर्म प्रकरिष्ये महाहवे
अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान्
MBh 6.105.27
अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत्
भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे
MBh 6.105.28
इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः
आससाद दुराधर्षः पाण्डवानामनीकिनीम्
MBh 6.105.29
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ
आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन्
MBh 6.105.30
दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन
MBh 6.105.31
पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः
MBh 6.105.32
हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम्
सारोहाणां महाराज हयानां चायुतं पुनः
MBh 6.105.33
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः
प्रजज्वाल रणे भीष्मो विधूम इव पावकः
MBh 6.105.34
न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम्
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम्
MBh 6.105.35
ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः
MBh 6.105.36
स युध्यमानो बहुभिर्भीष्मः शांतनवस्तदा
अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः
MBh 6.105.37
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन्
महत्या सेनया सार्धं ततो युद्धमवर्तत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 104
- Next chapter · Bhīṣma-Parva Ch 106 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.105local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷