🪷 Mahābhārata · Bhīṣma-Parva · Chapter 104
The Book of Bhīṣma · Parva 6 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 58 Shlokas
MBh 6.104.1
धृतराष्ट्र उवाच
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे
पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व संजय
MBh 6.104.2
संजय उवाच
ततः प्रभाते विमले सूर्यस्योदयनं प्रति
वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च
MBh 6.104.3
ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि
MBh 6.104.4
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम्
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते
MBh 6.104.5
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान्
MBh 6.104.6
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः
MBh 6.104.7
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः
प्रययौ सिंहनादेन नादयन्भरतर्षभ
MBh 6.104.8
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत्
MBh 6.104.9
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान्
जघनं पालयामास पाण्डुसैन्यस्य भारत
MBh 6.104.10
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम्
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः
MBh 6.104.11
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम्
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति
MBh 6.104.12
पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः
ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः
MBh 6.104.13
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ
MBh 6.104.14
काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः
MBh 6.104.15
तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः
जघनं पालयामासुस्तव सैन्यस्य भारत
MBh 6.104.16
दिवसे दिवसे प्राप्ते भीष्मः शांतनवो युधि
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान्
MBh 6.104.17
ततः प्रववृते युद्धं तव तेषां च भारत
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम्
MBh 6.104.18
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्
MBh 6.104.19
तत्र भारत भीमेन पीडितास्तावकाः शरैः
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा
MBh 6.104.20
नकुलः सहदेवश्च सात्यकिश्च महारथः
तव सैन्यं समासाद्य पीडयामासुरोजसा
MBh 6.104.21
ते वध्यमानाः समरे तावका भरतर्षभ
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम्
MBh 6.104.22
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः
संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः
MBh 6.104.23
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ
वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः
MBh 6.104.24
धृतराष्ट्र उवाच
पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व संजय
MBh 6.104.25
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परंतपः
विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व संजय
MBh 6.104.26
संजय उवाच
आचक्षे ते महाराज यदकार्षीत्पितामहः
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः
MBh 6.104.27
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम्
MBh 6.104.28
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम्
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः
MBh 6.104.29
स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान्
अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः
MBh 6.104.30
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान्
आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा
MBh 6.104.31
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः
MBh 6.104.32
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान्
गजारोहान्गजेभ्यश्च परेषां विदधद्भयम्
MBh 6.104.33
तमेकं समरे भीष्मं त्वरमाणं महारथम्
पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः
MBh 6.104.34
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान्
दिक्ष्वदृश्यत सर्वासु घोरं संधारयन्वपुः
MBh 6.104.35
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत
संग्रामे युध्यमानस्य शक्रचापनिभं महत्
MBh 6.104.36
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते
विस्मयं परमं प्राप्ताः पितामहमपूजयन्
MBh 6.104.37
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम्
MBh 6.104.38
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम्
MBh 6.104.39
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम्
MBh 6.104.40
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम्
अनिच्छन्नपि संक्रुद्धः प्रहसन्निदमब्रवीत्
MBh 6.104.41
काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी
MBh 6.104.42
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः
उवाच भीष्मं समरे सृक्किणी परिलेलिहन्
MBh 6.104.43
जानामि त्वां महाबाहो क्षत्रियाणां क्षयंकरम्
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह
MBh 6.104.44
दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह
MBh 6.104.45
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम
अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम
MBh 6.104.46
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः
एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर
MBh 6.104.47
काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय
MBh 6.104.48
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः
अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः
MBh 6.104.49
तस्य तद्वचनं श्रुत्वा सव्यसाची परंतपः
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत्
MBh 6.104.50
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम्
MBh 6.104.51
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः
तस्मादद्य महाबाहो वीर भीष्ममभिद्रव
MBh 6.104.52
अहत्वा समरे भीष्मं यदि यास्यसि मारिष
अवहास्योऽस्य लोकस्य भविष्यसि मया सह
MBh 6.104.53
नावहास्या यथा वीर भवेम परमाहवे
तथा कुरु रणे यत्नं साधयस्व पितामहम्
MBh 6.104.54
अहं ते रक्षणं युद्धे करिष्यामि परंतप
वारयन्रथिनः सर्वान्साधयस्व पितामहम्
MBh 6.104.55
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम्
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम्
MBh 6.104.56
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम्
भगदत्तं तथा शूरं मागधं च महारथम्
MBh 6.104.57
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम्
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः
अहमावारयिष्यामि वेलेव मकरालयम्
MBh 6.104.58
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः
निवारयिष्यामि रणे साधयस्व पितामहम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 103
- Next chapter · Bhīṣma-Parva Ch 105 →
Sources and Connected Readings
Continue from these 58 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.104local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷