🪷 Mahābhārata · Bhīṣma-Parva · Chapter 103

The Book of Bhīṣma · Parva 6 · 101 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 101 Shlokas

MBh 6.103.1
संजय उवाच युध्यतामेव तेषां तु भास्करेऽस्तमुपागते संध्या समभवद्घोरा नापश्याम ततो रणम्
MBh 6.103.2
ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत वध्यमानं बलं चापि भीष्मेणामित्रघातिना
MBh 6.103.3
मुक्तशस्त्रं परावृत्तं पलायनपरायणम् भीष्मं च युधि संरब्धमनुयान्तं महारथान्
MBh 6.103.4
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत्
MBh 6.103.5
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः तथैव तव सैन्यानामवहारो ह्यभूत्तदा
MBh 6.103.6
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः
MBh 6.103.7
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः
MBh 6.103.8
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत
MBh 6.103.9
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी
MBh 6.103.10
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन्
MBh 6.103.11
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः
MBh 6.103.12
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह
MBh 6.103.13
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् गजं नलवनानीव विमृद्नन्तं बलं मम
MBh 6.103.14
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम्
MBh 6.103.15
यथा घोरो महानागस्तक्षको वै विषोल्बणः तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान्
MBh 6.103.16
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्
MBh 6.103.17
वरुणः पाशभृद्वापि सगदो वा धनेश्वरः न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे
MBh 6.103.18
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे
MBh 6.103.19
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा
MBh 6.103.20
यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन् एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान्
MBh 6.103.21
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः
MBh 6.103.22
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन
MBh 6.103.23
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम्
MBh 6.103.24
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव स्वधर्मस्याविरोधेन तदुदाहर केशव
MBh 6.103.25
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्
MBh 6.103.26
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः
MBh 6.103.27
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ
MBh 6.103.28
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे
MBh 6.103.29
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः
MBh 6.103.30
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम्
MBh 6.103.31
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात्
MBh 6.103.32
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः मदर्था भवदर्था ये ये मदीयास्तवैव ते
MBh 6.103.33
तव भ्राता मम सखा संबन्धी शिष्य एव च मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते
MBh 6.103.34
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् एष नः समयस्तात तारयेम परस्परम् स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम्
MBh 6.103.35
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ
MBh 6.103.36
परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः अनुज्ञातं तु पार्थेन मया कार्यं न संशयः
MBh 6.103.37
अथ वा फल्गुनस्यैष भारः परिमितो रणे निहनिष्यति संग्रामे भीष्मं परपुरंजयम्
MBh 6.103.38
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप
MBh 6.103.39
विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते
MBh 6.103.40
युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे
MBh 6.103.41
नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः
MBh 6.103.42
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर त्वया नाथेन गोविन्द किमु भीष्मं महाहवे
MBh 6.103.43
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव
MBh 6.103.44
समयस्तु कृतः कश्चिद्भीष्मेण मम माधव मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो
MBh 6.103.45
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः भवता सहिताः सर्वे पृच्छामो मधुसूदन
MBh 6.103.46
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम्
MBh 6.103.47
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे
MBh 6.103.48
स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम्
MBh 6.103.49
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम्
MBh 6.103.50
संजय उवाच ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् रोचते मे महाबाहो सततं तव भाषितम्
MBh 6.103.51
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् गम्यतां स वधोपायं प्रष्टुं सागरगासुतः वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः
MBh 6.103.52
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान्
MBh 6.103.53
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति
MBh 6.103.54
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे पूजयन्तो महाराज पाण्डवा भरतर्षभ प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः
MBh 6.103.55
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा
MBh 6.103.56
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम्
MBh 6.103.57
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः
MBh 6.103.58
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि प्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो
MBh 6.103.59
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः भवन्तं समरे राजन्विषहेम कथं वयम्
MBh 6.103.60
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे
MBh 6.103.61
नाददानं संदधानं विकर्षन्तं धनुर्न च पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम्
MBh 6.103.62
नराश्वरथनागानां हन्तारं परवीरहन् क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ
MBh 6.103.63
वर्षता शरवर्षाणि महान्ति पुरुषोत्तम क्षयं नीता हि पृतना भवता महती मम
MBh 6.103.64
यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह
MBh 6.103.65
ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वज न कथंचन कौन्तेय मयि जीवति संयुगे युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः
MBh 6.103.66
निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम्
MBh 6.103.67
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् हते मयि हतं सर्वं तस्मादेवं विधीयताम्
MBh 6.103.68
युधिष्ठिर उवाच ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम्
MBh 6.103.69
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः
MBh 6.103.70
भीष्म उवाच सत्यमेतन्महाबाहो यथा वदसि पाण्डव नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः
MBh 6.103.71
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः
MBh 6.103.72
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे द्रवमाणे च भीते च तवास्मीति च वादिनि
MBh 6.103.73
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम
MBh 6.103.74
इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम् अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथंचन
MBh 6.103.75
य एष द्रौपदो राजंस्तव सैन्ये महारथः शिखण्डी समराकाङ्क्षी शूरश्च समितिंजयः
MBh 6.103.76
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम्
MBh 6.103.77
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः
MBh 6.103.78
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः न प्रहर्तुमभीप्सामि गृहीतेषुं कथंचन
MBh 6.103.79
तदन्तरं समासाद्य पाण्डवो मां धनंजयः शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ
MBh 6.103.80
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनंजयात्
MBh 6.103.81
एष तस्मात्पुरोधाय कंचिदन्यं ममाग्रतः मां पातयतु बीभत्सुरेवं ते विजयो भवेत्
MBh 6.103.82
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम ततो जेष्यसि संग्रामे धार्तराष्ट्रान्समागतान्
MBh 6.103.83
संजय उवाच तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति अभिवाद्य महात्मानं भीष्मं कुरुपितामहम्
MBh 6.103.84
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत्
MBh 6.103.85
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता पितामहेन संग्रामे कथं योत्स्यामि माधव
MBh 6.103.86
क्रीडता हि मया बाल्ये वासुदेव महामनाः पांसुरूषितगात्रेण महात्मा परुषीकृतः
MBh 6.103.87
यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः
MBh 6.103.88
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया
MBh 6.103.89
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे
MBh 6.103.90
श्रीकृष्ण उवाच प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि
MBh 6.103.91
पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति
MBh 6.103.92
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा
MBh 6.103.93
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम्
MBh 6.103.94
जहि भीष्मं महाबाहो शृणु चेदं वचो मम यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः
MBh 6.103.95
ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् आततायिनमामन्त्र्य हन्याद्घातकमागतम्
MBh 6.103.96
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः
MBh 6.103.97
अर्जुन उवाच शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते
MBh 6.103.98
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः
MBh 6.103.99
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु
MBh 6.103.100
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् कन्या ह्येषा पुरा जाता पुरुषः समपद्यत
MBh 6.103.101
संजय उवाच इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः शयनानि यथास्वानि भेजिरे पुरुषर्षभाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 101 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.103local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷