🪷 Mahābhārata · Bhīṣma-Parva · Chapter 102

The Book of Bhīṣma · Parva 6 · 78 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 78 Shlokas

MBh 6.102.1
संजय उवाच ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः आजघान रणे पार्थान्सहसेनान्समन्ततः
MBh 6.102.2
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः
MBh 6.102.3
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः
MBh 6.102.4
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम्
MBh 6.102.5
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः
MBh 6.102.6
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुंगवम्
MBh 6.102.7
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः संग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः
MBh 6.102.8
तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः पाण्डवानभ्यवर्तन्त विविधायुधपाणयः तथैव पाण्डवा राजन्परिवव्रुः पितामहम्
MBh 6.102.9
स समन्तात्परिवृतो रथौघैरपराजितः गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान्
MBh 6.102.10
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान्
MBh 6.102.11
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः कर्णिनालीकनाराचैश्छादयामास तद्बलम्
MBh 6.102.12
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः मुण्डतालवनानीव चकार स रथव्रजान्
MBh 6.102.13
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः
MBh 6.102.14
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः निशम्य सर्वभूतानि समकम्पन्त भारत
MBh 6.102.15
अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः
MBh 6.102.16
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः अपश्याम महाराज ह्रियमाणान्रणाजिरे
MBh 6.102.17
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः
MBh 6.102.18
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् निमग्नाः परलोकाय सवाजिरथकुञ्जराः
MBh 6.102.19
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः
MBh 6.102.20
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते
MBh 6.102.21
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष
MBh 6.102.22
बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी
MBh 6.102.23
हतारोहा गजा राजन्हयाश्च हतसादिनः परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः
MBh 6.102.24
यतमानाश्च ते वीरा द्रवमाणान्महारथान् नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्
MBh 6.102.25
महेन्द्रसमवीर्येण वध्यमाना महाचमूः अभज्यत महाराज न च द्वौ सह धावतः
MBh 6.102.26
आविद्धरथनागाश्वं पतितध्वजकूबरम् अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्
MBh 6.102.27
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
MBh 6.102.28
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत
MBh 6.102.29
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा
MBh 6.102.30
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्
MBh 6.102.31
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे
MBh 6.102.32
यत्पुरा कथितं वीर त्वया राज्ञां समागमे विराटनगरे पार्थ संजयस्य समीपतः
MBh 6.102.33
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे
MBh 6.102.34
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ
MBh 6.102.35
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः अकाम इव बीभत्सुरिदं वचनमब्रवीत्
MBh 6.102.36
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्
MBh 6.102.37
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम्
MBh 6.102.38
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव
MBh 6.102.39
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे
MBh 6.102.40
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्
MBh 6.102.41
क्षणेन स रथस्तस्य सहयः सहसारथिः शरवर्षेण महता न प्राज्ञायत किंचन
MBh 6.102.42
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सात्वतः चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः
MBh 6.102.43
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः
MBh 6.102.44
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
MBh 6.102.45
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः
MBh 6.102.46
तस्य तत्पूजयामास लाघवं शंतनोः सुतः साधु पार्थ महाबाहो साधु कुन्तीसुतेति च
MBh 6.102.47
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः मुमोच समरे भीष्मः शरान्पार्थरथं प्रति
MBh 6.102.48
अदर्शयद्वासुदेवो हययाने परं बलम् मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन्
MBh 6.102.49
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ
MBh 6.102.50
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
MBh 6.102.51
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
MBh 6.102.52
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले नामृष्यत महाबाहुर्माधवः परवीरहा
MBh 6.102.53
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् अभिदुद्राव भीष्मं स भुजप्रहरणो बली
MBh 6.102.54
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः
MBh 6.102.55
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ग्रसन्निव च चेतांसि तावकानां महाहवे
MBh 6.102.56
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः
MBh 6.102.57
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः
MBh 6.102.58
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् अभिदुद्राव तेजस्वी विनदन्यादवर्षभः
MBh 6.102.59
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः उवाच चैनं गोविन्दमसंभ्रान्तेन चेतसा
MBh 6.102.60
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे
MBh 6.102.61
त्वया हि देव संग्रामे हतस्यापि ममानघ श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे
MBh 6.102.62
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै
MBh 6.102.63
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः जगाम चैनमादाय वेगेन पुरुषोत्तमः
MBh 6.102.64
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा निजघ्राह हृषीकेशं कथंचिद्दशमे पदे
MBh 6.102.65
तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् निःश्वसन्तं यथा नागमर्जुनः परवीरहा
MBh 6.102.66
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव
MBh 6.102.67
मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव ममैष भारः सर्वो हि हनिष्यामि यतव्रतम्
MBh 6.102.68
शपे माधव सख्येन सत्येन सुकृतेन च अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन
MBh 6.102.69
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् तारापतिमिवापूर्णमन्तकाले यदृच्छया
MBh 6.102.70
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः नकिंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः
MBh 6.102.71
तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ
MBh 6.102.72
प्राणांश्चादत्त योधानां पिता देवव्रतस्तव गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये
MBh 6.102.73
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता
MBh 6.102.74
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा
MBh 6.102.75
ते वध्यमाना भीष्मेण कालेनेव युगक्षये वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः
MBh 6.102.76
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे
MBh 6.102.77
महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान् भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम्
MBh 6.102.78
विमृद्नतस्तस्य तु पाण्डुसेना;मस्तं जगामाथ सहस्ररश्मिः ततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति संबभूव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 78 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.102local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷