🪷 Mahābhārata · Bhīṣma-Parva · Chapter 102

The Book of Bhīṣma · Parva 6 · 78 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 6.102local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 78 Shlokas

MBh 6.102.1
संजय उवाच ततः पिता तव करुद्धॊ निशितैः सायकॊत्तमैः आजघान रणे पार्थान सहसेनान समन्ततः
MBh 6.102.2
भीमं दवादशभिर विद्ध्वा सात्यकिं नवभिः शरैः नकुलं च तरिभिर बाणैः सहदेवं च सप्तभिः
MBh 6.102.3
युधिष्ठिरं दवादशभिर बाह्वॊर उरसि चार्पयत धृष्टद्युम्नं ततॊ विद्ध्वा विननाद महाबलः
MBh 6.102.4
तं दवादशार्धैर नकुलॊ माधवश च तरिभिः शरैः धृष्टद्युम्नश च सप्तत्या भीमसेनश च पञ्चभिः युधिष्ठिरॊ दवादशभिः परत्यविध्यत पितामहम
MBh 6.102.5
दरॊणस तु सात्यकिं विद्ध्वा भीमसेनम अविध्यत एकैकं पञ्चभिर बाणैर यमदण्डॊपमैः शितैः
MBh 6.102.6
तौ च तं परत्यविध्येतां तरिभिस तरिभिर अजिह्मगैः तॊत्त्रैर इव महानागं दरॊणं बराह्मणपुंगवम
MBh 6.102.7
सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः संग्रामे नाजहुर भीष्मं वध्यमानाः शितैः शरैः
MBh 6.102.8
तथैवान्ये वध्यमानाः पाण्डवेयैर महात्मभिः पाण्डवान अभ्यवर्तन्त विविधायुधपाणयः तथैव पाण्डवा राजन परिवव्रुः पितामहम
MBh 6.102.9
स समन्तात परिवृतॊ रथौघैर अपराजितः गहने ऽगनिर इवॊत्सृष्टः परजज्वाल दहन परान
MBh 6.102.10
रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः शरस्फुलिङ्गॊ भीष्माग्निर ददाह कषत्रियर्षभान
MBh 6.102.11
सुवर्णपुङ्खैर इषुभिर गार्ध्रपक्षैः सुतेजनैः कर्णिनालीकनाराचैश छादयाम आस तद बलम
MBh 6.102.12
अपातयद धवजांश चैव रथिनश च शितैः शरैः मुण्डतालवनानीव चकार स रथव्रजान
MBh 6.102.13
निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे अकरॊत स महाबाहुः सर्वशस्त्रभृतां वरः
MBh 6.102.14
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः निशम्य सर्वभूतानि समकम्पन्त भारत
MBh 6.102.15
अमॊघा हय अपतन बाणाः पितुस ते भरतर्षभ नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः
MBh 6.102.16
हतवीरान रथान राजन संयुक्ताञ जवनैर हयैः अपश्याम महाराज हरियमाणान रणाजिरे
MBh 6.102.17
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश महारथाः समाख्याताः कुलपुत्रास तनुत्यजः अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः
MBh 6.102.18
संग्रामे भीष्मम आसाद्य वयादितास्यम इवान्तकम निमग्नाः परलॊकाय स वाजिरथकुञ्जराः
MBh 6.102.19
भग्नाक्षॊपस्करान कांश चिद भग्नचक्रांश च सर्वशः अपश्याम रथान राजञ शतशॊ ऽथ सहस्रशः
MBh 6.102.20
सवरूथै रथैर भग्नै रथिभिश च निपातितैः शरैः सुकवचैश छिन्नैः पट्टिशैश च विशां पते
MBh 6.102.21
गदाभिर मुसलैश चैव निस्त्रिंशैश च शिलीमुखैः अनुकर्षैर उपासङ्गैश चक्रैर भग्नैश च मारिष
MBh 6.102.22
बाहुभिः कार्मुकैः खड्गैः शिरॊभिश च सकुण्डलैः तलत्रैर अङ्गुलित्रैश च धवजैश च विनिपातितैः चापैश च बहुधा छिन्नैः समास्तीर्यत मेदिनी
MBh 6.102.23
हतारॊहा गजा राजन हयाश च हतसादिनः परिपेतुर दरुतं तत्र शतशॊ ऽथ सहस्रशः
MBh 6.102.24
यतमानाश च ते वीरा दरवमाणान महारथान नाशक्नुवन वारयितुं भीष्मबाणप्रपीडितान
MBh 6.102.25
महेन्द्रसमवीर्येण वध्यमाना महाचमूः अभज्यत महाराज न च दवौ सह धावतः
MBh 6.102.26
आविद्धरथनागाश्वं पतितध्वजकूबरम अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम
MBh 6.102.27
जघानात्र पिता पुत्रं पुत्रश च पितरं तथा परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
MBh 6.102.28
विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत
MBh 6.102.29
तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथकुञ्जरम ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा
MBh 6.102.30
परभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम
MBh 6.102.31
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तव परहरास्मै नरव्याघ्र न चेन मॊहात परमुह्यसे
MBh 6.102.32
यत पुरा कथितं वीर तवया राज्ञां समागमे विराटनगरे पार्थ संजयस्य समीपतः
MBh 6.102.33
भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे
MBh 6.102.34
इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम कषत्रधर्मम अनुस्मृत्य युध्यस्व भरतर्षभ
MBh 6.102.35
इत्य उक्तॊ वासुदेवेन तिर्यग्दृष्टिर अधॊमुखः अकाम इव बीभत्सुर इदं वचनम अब्रवीत
MBh 6.102.36
अवध्यानां वधं कृत्वा राज्यं वा नरकॊत्तरम दुःखानि वनवासे वा किं नु मे सुकृतं भवेत
MBh 6.102.37
चॊदयाश्वान यतॊ भीष्मः करिष्ये वचनं तव पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम
MBh 6.102.38
ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माधवः यतॊ भीष्मस ततॊ राजन दुष्प्रेक्ष्यॊ रश्मिवान इव
MBh 6.102.39
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे
MBh 6.102.40
ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः धनंजयरथं शीघ्रं शरवर्षैर अवाकिरत
MBh 6.102.41
कषणेन स रथस तस्य सहयः सहसारथिः शरवर्षेण महता न परज्ञायत किं चन
MBh 6.102.42
वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सात्वतः चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः
MBh 6.102.43
ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम पातयाम आस भीष्मस्य धनुश छित्त्वा शितैः शरैः
MBh 6.102.44
स चछिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
MBh 6.102.45
विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः
MBh 6.102.46
तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः साधु पार्थ महाबाहॊ साधु कुन्तीसुतेति च
MBh 6.102.47
समाभाष्यैनम अपरं परगृह्य रुचिरं धनुः मुमॊच समरे भीष्मः शरान पार्थरथं परति
MBh 6.102.48
अदर्शयद वासुदेवॊ हययाने परं बलम मॊघान कुर्वञ शरांस तस्य मण्डलानि विदर्शयन
MBh 6.102.49
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ गॊवृषाव इव संरब्धौ विषाणॊल्लिखिताङ्कितौ
MBh 6.102.50
वासुदेवस तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि
MBh 6.102.51
परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान
MBh 6.102.52
युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले नामृष्यत महाबाहुर माधवः परवीरहा
MBh 6.102.53
उत्सृज्य रजतप्रख्यान हयान पार्थस्य मारिष करुद्धॊ नाम महायॊगी परचस्कन्द महारथात अभिदुद्राव भीष्मं स भुजप्रहरणॊ बली
MBh 6.102.54
परतॊदपाणिस तेजस्वी सिंहवद विनदन मुहुः दारयन्न इव पद्भ्यां स जगतीं जगतीश्वरः
MBh 6.102.55
करॊधताम्रेक्षणः कृष्णॊ जिघांसुर अमितद्युतिः गरसन्न इव च चेतांसि तावकानां महाहवे
MBh 6.102.56
दृष्ट्वा माधवम आक्रन्दे भीष्मायॊद्यन्तम आहवे हतॊ भीष्मॊ हतॊ भीष्म इति तत्र सम सैनिकाः करॊशन्तः पराद्रवन सर्वे वासुदेवभयान नराः
MBh 6.102.57
पीतकौशेयसंवीतॊ मणिश्यामॊ जनार्दनः शुशुभे विद्रवन भीष्मं विद्युन्माली यथाम्बुदः
MBh 6.102.58
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम अभिदुद्राव तेजस्वी विनदन यादवर्षभः
MBh 6.102.59
तम आपतन्तं संप्रेक्ष्य पुण्डरीकाक्षम आहवे असंभ्रमं रणे भीष्मॊ विचकर्ष महद धनुः उवाच चैनं गॊविन्दम असंभ्रान्तेन चेतसा
MBh 6.102.60
एह्य एहि पुण्डरीकाक्ष देवदेव नमॊ ऽसतु ते माम अद्य सात्वतश्रेष्ठ पातयस्व महाहवे
MBh 6.102.61
तवया हि देव संग्रामे हतस्यापि ममानघ शरेय एव परं कृष्ण लॊके ऽमुष्मिन्न इहैव च संभावितॊ ऽसमि गॊविन्द तरैलॊक्येनाद्य संयुगे
MBh 6.102.62
अन्वग एव ततः पार्थस तम अनुद्रुत्य केशवम निजग्राह महाबाहुर बाहुभ्याम परिगृह्य वै
MBh 6.102.63
निगृह्यमाणः पार्थेन कृष्णॊ राजीवलॊचनः जगाम चैनम आदाय वेगेन पुरुषॊत्तमः
MBh 6.102.64
पार्थस तु विष्टभ्य बलाच चरणौ परवीरहा निजघ्राह हृषीकेशं कथं चिद दशमे पदे
MBh 6.102.65
तत एनम उवाचार्तः करॊधपर्याकुलेक्षणम निःश्वसन्तं यथा नागम अर्जुनः परवीरहा
MBh 6.102.66
निवर्तस्व महाबाहॊ नानृतं कर्तुम अर्हसि यत तवया कथितं पूर्वं न यॊत्स्यामीति केशव
MBh 6.102.67
मिथ्यावादीति लॊकस तवां कथयिष्यति माधव ममैष भारः सर्वॊ हि हनिष्यामि यतव्रतम
MBh 6.102.68
शपे माधव सख्येन सत्येन सुकृतेन च अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन
MBh 6.102.69
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम तारापतिम इवापूर्णम अन्तकाले यदृच्छया
MBh 6.102.70
माधवस तु वचः शरुत्वा फल्गुनस्य महात्मनः न किं चिद उक्त्वा सक्रॊध आरुरॊह रथं पुनः
MBh 6.102.71
तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः ववर्ष शरवर्षेण मेघॊ वृष्ट्या यथाचलौ
MBh 6.102.72
पराणांश चादत्त यॊधानां पिता देवव्रतस तव गभस्तिभिर इवादित्यस तेजांसि शिशिरात्यये
MBh 6.102.73
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता
MBh 6.102.74
हतविद्रुतसैन्यास तु निरुत्साहा विचेतसः निरीक्षितुं न शेकुस ते भीष्मम अप्रतिमं रणे मध्यं गतम इवादित्यं परतपन्तं सवतेजसा
MBh 6.102.75
ते वध्यमाना भीष्मेण कालेनेव युगक्षये वीक्षां चक्रुर महाराज पाण्डवा भयपीडिताः
MBh 6.102.76
तरातारं नाध्यगच्छन्त गावः पङ्कगता इव पिपीलिका इव कषुण्णा दुर्बला बलिना रणे
MBh 6.102.77
महारथं भारत दुष्प्रधर्षं; शरौघिणं परतपन्तं नरेन्द्रान भीष्मं न शेकुः परतिवीक्षितुं ते; शरार्चिषं सूर्यम इवातपन्तम
MBh 6.102.78
विमृद्नतस तस्य तु पाण्डुसेनाम; अस्तं जगामाथ सहस्ररश्मिः ततॊ बलानां शरमकर्शितानां; मनॊ ऽवहारं परति संबभूव

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷