🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 93

The Book of the Horse-Sacrifice · Parva 14 · 93 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 93 Shlokas

MBh 14.93.1
नकुल उवाच हन्त वो वर्तयिष्यामि दानस्य परमं फलम् न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः
MBh 14.93.2
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा
MBh 14.93.3
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः
MBh 14.93.4
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः षष्ठे काले कदाचिच्च तस्याहारो न विद्यते भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः
MBh 14.93.5
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे नाविद्यत तदा विप्राः संचयस्तान्निबोधत क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा
MBh 14.93.6
काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते
MBh 14.93.7
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः उञ्छमप्राप्तवानेव सार्धं परिजनेन ह
MBh 14.93.8
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः
MBh 14.93.9
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः
MBh 14.93.10
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः
MBh 14.93.11
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन्
MBh 14.93.12
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः
MBh 14.93.13
अनसूयवो गतक्रोधाः साधवो गतमत्सराः त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः
MBh 14.93.14
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा
MBh 14.93.15
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम
MBh 14.93.16
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः
MBh 14.93.17
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् आहारं चिन्तयामास कथं तुष्टो भवेदिति
MBh 14.93.18
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः
MBh 14.93.19
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत
MBh 14.93.20
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम्
MBh 14.93.21
अपि कीटपतंगानां मृगाणां चैव शोभने स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि
MBh 14.93.22
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात्
MBh 14.93.23
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे
MBh 14.93.24
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम
MBh 14.93.25
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा
MBh 14.93.26
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे
MBh 14.93.27
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् उपवासपरिश्रान्तो यदा त्वमपि कर्शितः
MBh 14.93.28
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम
MBh 14.93.29
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्
MBh 14.93.30
पुत्र उवाच सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम्
MBh 14.93.31
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम्
MBh 14.93.32
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता
MBh 14.93.33
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्
MBh 14.93.34
पितोवाच अपि वर्षसहस्री त्वं बाल एव मतो मम उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत
MBh 14.93.35
बालानां क्षुद्बलवती जानाम्येतदहं विभो वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक
MBh 14.93.36
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च दीर्घकालं तपस्तप्तं न मे मरणतो भयम्
MBh 14.93.37
पुत्र उवाच अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना
MBh 14.93.38
पितोवाच रूपेण सदृशस्त्वं मे शीलेन च दमेन च परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः
MBh 14.93.39
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः प्रहसन्निव विप्राय स तस्मै प्रददौ तदा
MBh 14.93.40
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः
MBh 14.93.41
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत्
MBh 14.93.42
संतानात्तव संतानं मम विप्र भविष्यति सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे
MBh 14.93.43
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति
MBh 14.93.44
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया
MBh 14.93.45
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते
MBh 14.93.46
श्वशुर उवाच वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम्
MBh 14.93.47
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि
MBh 14.93.48
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम्
MBh 14.93.49
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी
MBh 14.93.50
स्नुषोवाच गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो
MBh 14.93.51
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान्
MBh 14.93.52
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि
MBh 14.93.53
श्वशुर उवाच अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे
MBh 14.93.54
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् गणयित्वा महाभागे त्वं हि धर्मभृतां वरा
MBh 14.93.55
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः
MBh 14.93.56
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः
MBh 14.93.57
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम
MBh 14.93.58
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि
MBh 14.93.59
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः
MBh 14.93.60
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ
MBh 14.93.61
पितृलोकगताः सर्वे तारिताः पितरस्त्वया अनागताश्च बहवः सुबहूनि युगानि च
MBh 14.93.62
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज
MBh 14.93.63
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम
MBh 14.93.64
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा
MBh 14.93.65
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह
MBh 14.93.66
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् यदा दानरुचिर्भवति तदा धर्मो न सीदति
MBh 14.93.67
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया
MBh 14.93.68
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् कालः परतरो दानाच्छ्रद्धा चापि ततः परा
MBh 14.93.69
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम्
MBh 14.93.70
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः
MBh 14.93.71
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः
MBh 14.93.72
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः
MBh 14.93.73
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति
MBh 14.93.74
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः एकां दत्त्वा स पारक्यां नरकं समवाप्तवान्
MBh 14.93.75
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः
MBh 14.93.76
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः
MBh 14.93.77
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते
MBh 14.93.78
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः न चाश्वमेधैर्बहुभिः फलं सममिदं तव
MBh 14.93.79
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम्
MBh 14.93.80
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम्
MBh 14.93.81
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज
MBh 14.93.82
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ
MBh 14.93.83
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्
MBh 14.93.84
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्
MBh 14.93.85
तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् पश्यतेदं सुविपुलं तपसा तस्य धीमतः
MBh 14.93.86
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः
MBh 14.93.87
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः आशया परया प्राप्तो न चाहं काञ्चनीकृतः
MBh 14.93.88
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा
MBh 14.93.89
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः न हि यज्ञो महानेष सदृशस्तैर्मतो मम
MBh 14.93.90
वैशंपायन उवाच इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान्
MBh 14.93.91
एतत्ते सर्वमाख्यातं मया परपुरंजय यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ
MBh 14.93.92
न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः
MBh 14.93.93
अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् तपो दमश्च सत्यं च दानं चेति समं मतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 93 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.93local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷