🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 92

The Book of the Horse-Sacrifice · Parva 14 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 14.92.1
जनमेजय उवाच पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः यदाश्चर्यमभूत्किंचित्तद्भवान्वक्तुमर्हति
MBh 14.92.2
वैशंपायन उवाच श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो
MBh 14.92.3
तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु दीनान्धकृपणे चापि तदा भरतसत्तम
MBh 14.92.4
घुष्यमाणे महादाने दिक्षु सर्वासु भारत पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि
MBh 14.92.5
बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ वज्राशनिसमं नादममुञ्चत विशां पते
MBh 14.92.6
सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् मानुषं वचनं प्राह धृष्टो बिलशयो महान्
MBh 14.92.7
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः
MBh 14.92.8
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः
MBh 14.92.9
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्
MBh 14.92.10
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे
MBh 14.92.11
अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् यथागमं यथान्यायं कर्तव्यं च यथाकृतम्
MBh 14.92.12
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम्
MBh 14.92.13
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः
MBh 14.92.14
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः
MBh 14.92.15
ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य नः देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः
MBh 14.92.16
यदत्र तथ्यं तद्ब्रूहि सत्यसंध द्विजातिषु यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया
MBh 14.92.17
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि
MBh 14.92.18
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः
MBh 14.92.19
यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम् सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः
MBh 14.92.20
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुंगवाः शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः
MBh 14.92.21
अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः
MBh 14.92.22
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.92local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷