🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 91
The Book of the Horse-Sacrifice · Parva 14 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 14.91.1
वैशंपायन उवाच
शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः
तुरगं तं यथाशास्त्रमालभन्त द्विजातयः
MBh 14.91.2
ततः संज्ञाप्य तुरगं विधिवद्याजकर्षभाः
उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम्
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम्
MBh 14.91.3
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः
श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ
MBh 14.91.4
तं वपाधूमगन्धं तु धर्मराजः सहानुजः
उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा
MBh 14.91.5
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप
तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः
MBh 14.91.6
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम्
MBh 14.91.7
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि
कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम्
MBh 14.91.8
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः
अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
MBh 14.91.9
पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः
MBh 14.91.10
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम्
MBh 14.91.11
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता
अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया
MBh 14.91.12
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम्
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः
MBh 14.91.13
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः
MBh 14.91.14
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम्
MBh 14.91.15
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत
तथैव द्विजसंघानां शंसतां विबभौ स्वनः
MBh 14.91.16
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम्
उवाच मध्ये विप्राणामिदं संपूजयन्मुनिः
MBh 14.91.17
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्
हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते
MBh 14.91.18
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्
यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि
MBh 14.91.19
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः
MBh 14.91.20
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः
यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता
MBh 14.91.21
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते
MBh 14.91.22
पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह
MBh 14.91.23
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम्
MBh 14.91.24
यज्ञवाटे तु यत्किंचिद्धिरण्यमपि भूषणम्
तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः
MBh 14.91.25
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु
तथा विट्शूद्रसंघाश्च तथान्ये म्लेच्छजातयः
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः
MBh 14.91.26
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्
तर्पिता वसुना तेन धर्मराज्ञा महात्मना
MBh 14.91.27
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात्
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः
MBh 14.91.28
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा
चकार पुण्यं लोके तु सुमहान्तं पृथा तदा
MBh 14.91.29
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह
सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव
MBh 14.91.30
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा
अशोभन्त महाराज ग्रहास्तारागणैरिव
MBh 14.91.31
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च
गजानश्वानलंकारान्स्त्रियो वस्त्राणि काञ्चनम्
MBh 14.91.32
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले
विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा
MBh 14.91.33
आनाय्य च तथा वीरं राजानं बभ्रुवाहनम्
प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा
MBh 14.91.34
दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ
स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत्
MBh 14.91.35
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान्
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः
MBh 14.91.36
एवं बभूव यज्ञः स धर्मराजस्य धीमतः
बह्वन्नधनरत्नौघः सुरामैरेयसागरः
MBh 14.91.37
सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः
रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ
MBh 14.91.38
भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति
पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते
MBh 14.91.39
मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम्
मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा
MBh 14.91.40
दीयतां भुज्यतां चेति दिवारात्रमवारितम्
तं महोत्सवसंकाशमतिहृष्टजनाकुलम्
कथयन्ति स्म पुरुषा नानादेशनिवासिनः
MBh 14.91.41
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 90
- Next chapter · Aśvamedhika-Parva Ch 92 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.91local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷