🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 90

The Book of the Horse-Sacrifice · Parva 14 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 14.90.1
वैशंपायन उवाच स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् पितामहीमभ्यवदत्साम्ना परमवल्गुना
MBh 14.90.2
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः
MBh 14.90.3
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः
MBh 14.90.4
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया
MBh 14.90.5
स च राजा महावीर्यः पूजितो बभ्रुवाहनः धृतराष्ट्रं महीपालमुपतस्थे यथाविधि
MBh 14.90.6
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् उपगम्य महातेजा विनयेनाभ्यवादयत्
MBh 14.90.7
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः
MBh 14.90.8
तथैव स महीपालः कृष्णं चक्रगदाधरम् प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्
MBh 14.90.9
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्
MBh 14.90.10
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा पृथक्पृथगतीवैनं मानार्हं समपूजयन्
MBh 14.90.11
ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्
MBh 14.90.12
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः
MBh 14.90.13
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः
MBh 14.90.14
एवमेव महाराज दक्षिणां त्रिगुणां कुरु त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्
MBh 14.90.15
त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान् ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप
MBh 14.90.16
पवित्रं परमं ह्येतत्पावनानां च पावनम् यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन
MBh 14.90.17
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा नराधिपः प्रायजत वाजिमेधं महाक्रतुम्
MBh 14.90.18
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः
MBh 14.90.19
न तेषां स्खलितं तत्र नासीदपहुतं तथा क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः
MBh 14.90.20
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः
MBh 14.90.21
अभिषूय ततो राजन्सोमं सोमपसत्तमाः सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः
MBh 14.90.22
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः
MBh 14.90.23
भोजनं भोजनार्थिभ्यो दापयामास नित्यदा भीमसेनो महातेजाः सततं राजशासनात्
MBh 14.90.24
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः
MBh 14.90.25
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः
MBh 14.90.26
ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः
MBh 14.90.27
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ श्लेष्मातकमयं चैकं याजकाः समकारयन्
MBh 14.90.28
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ स भीमः कारयामास धर्मराजस्य शासनात्
MBh 14.90.29
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि
MBh 14.90.30
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः
MBh 14.90.31
चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः
MBh 14.90.32
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये
MBh 14.90.33
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि
MBh 14.90.34
यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः
MBh 14.90.35
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः
MBh 14.90.36
स किंपुरुषगीतैश्च किंनरैरुपशोभितः सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः
MBh 14.90.37
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु
MBh 14.90.38
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः
MBh 14.90.39
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.90local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷