🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 89

The Book of the Horse-Sacrifice · Parva 14 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 14.89.1
युधिष्ठिर उवाच श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो
MBh 14.89.2
बहूनि किल युद्धानि विजयस्य नराधिपैः पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम्
MBh 14.89.3
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः अतीव विजयो धीमानिति मे दूयते मनः
MBh 14.89.4
संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते
MBh 14.89.5
अतीव दुःखभागी स सततं कुन्तिनन्दनः न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि
MBh 14.89.6
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्
MBh 14.89.7
न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः
MBh 14.89.8
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः
MBh 14.89.9
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो
MBh 14.89.10
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा सख्युः सखा हृषीकेशः साक्षादिव धनंजयः
MBh 14.89.11
तत्र भीमादयस्ते तु कुरवो यादवास्तथा रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो
MBh 14.89.12
तथा कथयतामेव तेषामर्जुनसंकथाः उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः
MBh 14.89.13
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत्
MBh 14.89.14
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा
MBh 14.89.15
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे
MBh 14.89.16
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा
MBh 14.89.17
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः
MBh 14.89.18
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम्
MBh 14.89.19
ये व्यतीता महात्मानो राजानः सगरादयः तेषामपीदृशं कर्म न किंचिदनुशुश्रुम
MBh 14.89.20
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह
MBh 14.89.21
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्
MBh 14.89.22
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा
MBh 14.89.23
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः भीमादींश्चापि संपूज्य पर्यष्वजत केशवम्
MBh 14.89.24
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः
MBh 14.89.25
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह
MBh 14.89.26
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.89local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷