🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 94

The Book of the Horse-Sacrifice · Parva 14 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 14.94.1
जनमेजय उवाच यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः शान्तिव्यवसिता विप्राः शमो दम इति प्रभो
MBh 14.94.2
तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्
MBh 14.94.3
यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः
MBh 14.94.4
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः देवराज्यं महातेजाः प्राप्तवानखिलं विभुः
MBh 14.94.5
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः सदृशो देवराजेन समृद्ध्या विक्रमेण च
MBh 14.94.6
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः
MBh 14.94.7
वैशंपायन उवाच यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ गदतः शृणु मे राजन्यथावदिह भारत
MBh 14.94.8
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि
MBh 14.94.9
हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु
MBh 14.94.10
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा
MBh 14.94.11
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ महर्षयो महाराज संबभूवुः कृपान्विताः
MBh 14.94.12
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः
MBh 14.94.13
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर
MBh 14.94.14
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते
MBh 14.94.15
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्
MBh 14.94.16
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते
MBh 14.94.17
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः उक्तं न प्रतिजग्राह मानमोहवशानुगः
MBh 14.94.18
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत
MBh 14.94.19
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्
MBh 14.94.20
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि
MBh 14.94.21
तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः
MBh 14.94.22
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः
MBh 14.94.23
अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते
MBh 14.94.24
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा ददाति दानं विप्रेभ्यो लोकविश्वासकारकम्
MBh 14.94.25
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते
MBh 14.94.26
तेन दत्तानि दानानि पापेन हतबुद्धिना तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि
MBh 14.94.27
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः
MBh 14.94.28
अपि संचयबुद्धिर्हि लोभमोहवशंगतः उद्वेजयति भूतानि हिंसया पापचेतनः
MBh 14.94.29
एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च स कृत्वा कर्मणा तेन न सिध्यति दुरागमात्
MBh 14.94.30
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः
MBh 14.94.31
एष धर्मो महांस्त्यागो दानं भूतदया तथा ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा सनातनस्य धर्मस्य मूलमेतत्सनातनम्
MBh 14.94.32
श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः
MBh 14.94.33
एते चान्ये च बहवः सिद्धिं परमिकां गताः नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः
MBh 14.94.34
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.94local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷