🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 9

The Book of the Horse-Sacrifice · Parva 14 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 37 Shlokas

MBh 14.9.1
इन्द्र उवाच कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति
MBh 14.9.2
बृहस्पतिरुवाच सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति
MBh 14.9.3
इन्द्र उवाच कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य आचक्ष्व मे तद्द्विज यावदेता;न्निहन्मि सर्वांस्तव दुःखकर्तॄन्
MBh 14.9.4
बृहस्पतिरुवाच मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत
MBh 14.9.5
इन्द्र उवाच सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र
MBh 14.9.6
बृहस्पतिरुवाच देवैः सह त्वमसुरान्संप्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान् यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः
MBh 14.9.7
अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम्
MBh 14.9.8
इन्द्र उवाच एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते अयं वै त्वा याजयिता बृहस्पति;स्तथामरं चैव करिष्यतीति
MBh 14.9.9
अग्निरुवाच अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः
MBh 14.9.10
व्यास उवाच ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन् कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन्
MBh 14.9.11
मरुत्त उवाच आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् आसनं सलिलं पाद्यं गां चोपानय वै मुने
MBh 14.9.12
अग्निरुवाच आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्
MBh 14.9.13
मरुत्त उवाच कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो कच्चिद्देवाश्चास्य वशे यथाव;त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव
MBh 14.9.14
अग्निरुवाच शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः देवाश्च सर्वे वशगास्तस्य राज;न्संदेशं त्वं शृणु मे देवराज्ञः
MBh 14.9.15
यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु
MBh 14.9.16
मरुत्त उवाच संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत्
MBh 14.9.17
अग्निरुवाच ये वै लोका देवलोके महान्तः; संप्राप्स्यसे तान्देवराजप्रसादात् त्वां चेदसौ याजयेद्वै बृहस्पति;र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः
MBh 14.9.18
तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र
MBh 14.9.19
संवर्त उवाच मास्मानेवं त्वं पुनरागाः कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते मा त्वां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धोऽहं पावक तन्निबोध
MBh 14.9.20
व्यास उवाच ततो देवानगमद्धूमकेतु;र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम्
MBh 14.9.21
यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च
MBh 14.9.22
अग्निरुवाच न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः
MBh 14.9.23
उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः
MBh 14.9.24
इन्द्र उवाच पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् पुनर्यद्युक्तो न करिष्यते वच;स्ततो वज्रं संप्रहर्तास्मि तस्मै
MBh 14.9.25
अग्निरुवाच गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम् संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः
MBh 14.9.26
यद्यागच्छेः पुनरेवं कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते दहेयं त्वां चक्षुषा दारुणेन; संक्रुद्ध इत्येतदवैहि शक्र
MBh 14.9.27
इन्द्र उवाच त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता त्वत्संस्पर्शात्सर्वलोको बिभे;त्यश्रद्धेयं वदसे हव्यवाह
MBh 14.9.28
अग्निरुवाच दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार
MBh 14.9.29
इन्द्र उवाच न चण्डिका जङ्गमा नो करेणु;र्न वारिसोमं प्रपिबामि वह्ने न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः
MBh 14.9.30
प्रव्राजयेयं कालकेयान्पृथिव्या;मपाकर्षं दानवानन्तरिक्षात् दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः
MBh 14.9.31
अग्निरुवाच यत्र शर्यातिं च्यवनो याजयिष्य;न्सहाश्विभ्यां सोममगृह्णदेकः तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता;च्छर्यातियज्ञं स्मर तं महेन्द्र
MBh 14.9.32
वज्रं गृहीत्वा च पुरंदर त्वं; संप्राहार्षीश्च्यवनस्यातिघोरम् स ते विप्रः सह वज्रेण बाहु;मपागृह्णात्तपसा जातमन्युः
MBh 14.9.33
ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः
MBh 14.9.34
हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव
MBh 14.9.35
वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम् स त्वां दन्तान्विदशन्नभ्यधाव;ज्जिघांसया शूलमुद्यम्य घोरम्
MBh 14.9.36
अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम् यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि;मागच्छेथाः शरणं दानवघ्न
MBh 14.9.37
क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः सोऽहं जानन्ब्रह्मतेजो यथाव;न्न संवर्तं गन्तुमिच्छामि शक्र

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 37 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.9local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷