🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 10

The Book of the Horse-Sacrifice · Parva 14 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 14.10.1
इन्द्र उवाच एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम्
MBh 14.10.2
धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व बृहस्पतिं त्वमुपशिक्षस्व राज;न्वज्रं वा ते प्रहरिष्यामि घोरम्
MBh 14.10.3
व्यास उवाच ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र
MBh 14.10.4
ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा
MBh 14.10.5
मरुत्त उवाच त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः
MBh 14.10.6
बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् संवर्तो मां याजयिताद्य राज;न्न ते वाक्यं तस्य वा रोचयामि
MBh 14.10.7
गन्धर्व उवाच घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः
MBh 14.10.8
व्यास उवाच इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम्
MBh 14.10.9
मरुत्त उवाच इममश्मानं प्लवमानमारा;दध्वा दूरं तेन न दृश्यतेऽद्य प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य
MBh 14.10.10
अयमायाति वै वज्री दिशो विद्योतयन्दश अमानुषेण घोरेण सदस्यास्त्रासिता हि नः
MBh 14.10.11
संवर्त उवाच भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम् संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः
MBh 14.10.12
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप सर्वेषामेव देवानां क्षपितान्यायुधानि मे
MBh 14.10.13
दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम्
MBh 14.10.14
अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा वज्रं तथा स्थापयतां च वायु;र्महाघोरं प्लवमानं जलौघैः
MBh 14.10.15
मरुत्त उवाच घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन आत्मा हि मे प्रव्यथते मुहुर्मुहु;र्न मे स्वास्थ्यं जायते चाद्य विप्र
MBh 14.10.16
संवर्त उवाच वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि
MBh 14.10.17
मरुत्त उवाच इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव
MBh 14.10.18
संवर्त उवाच अयमिन्द्रो हरिभिरायाति राज;न्देवैः सर्वैः सहितः सोमपीथी मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम्
MBh 14.10.19
व्यास उवाच ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान् आयाद्यज्ञमधि राज्ञः पिपासु;राविक्षितस्याप्रमेयस्य सोमम्
MBh 14.10.20
तमायान्तं सहितं देवसंघैः; प्रत्युद्ययौ सपुरोधा मरुत्तः चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः
MBh 14.10.21
संवर्त उवाच स्वागतं ते पुरुहूतेह विद्व;न्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया
MBh 14.10.22
मरुत्त उवाच शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः
MBh 14.10.23
इन्द्र उवाच जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम् यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः
MBh 14.10.24
संवर्त उवाच यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम् स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव
MBh 14.10.25
व्यास उवाच एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान् सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः
MBh 14.10.26
कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम् येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः
MBh 14.10.27
इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम्
MBh 14.10.28
एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन्
MBh 14.10.29
आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन् नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः
MBh 14.10.30
ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः
MBh 14.10.31
ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः हवींष्युच्चैराह्वयन्देवसंघा;ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः
MBh 14.10.32
ततः पीत्वा बलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः
MBh 14.10.33
ततो राजा जातरूपस्य राशी;न्पदे पदे कारयामास हृष्टः द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता
MBh 14.10.34
ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम्
MBh 14.10.35
एवंगुणः संबभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम् तत्त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस्तर्पयानो विधानैः
MBh 14.10.36
वैशंपायन उवाच ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रयामास भूयः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.10local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷