🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 8

The Book of the Horse-Sacrifice · Parva 14 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 14.8.1
संवर्त उवाच गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः तप्यते यत्र भगवांस्तपो नित्यमुमापतिः
MBh 14.8.2
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च गुहासु शैलराजस्य यथाकामं यथासुखम्
MBh 14.8.3
उमासहायो भगवान्यत्र नित्यं महेश्वरः आस्ते शूली महातेजा नानाभूतगणावृतः
MBh 14.8.4
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा यमश्च वरुणश्चैव कुबेरश्च सहानुगः
MBh 14.8.5
भूतानि च पिशाचाश्च नासत्यावश्विनावपि गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा
MBh 14.8.6
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः उपासन्ते महात्मानं बहुरूपमुमापतिम्
MBh 14.8.7
रमते भगवांस्तत्र कुबेरानुचरैः सह विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः
MBh 14.8.8
न रूपं दृश्यते तस्य संस्थानं वा कथंचन निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः
MBh 14.8.9
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप
MBh 14.8.10
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर धातवो जातरूपस्य रश्मयः सवितुर्यथा
MBh 14.8.11
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः
MBh 14.8.12
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे
MBh 14.8.13
कपर्दिने करालाय हर्यक्ष्णे वरदाय च त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च
MBh 14.8.14
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च
MBh 14.8.15
हरिकेशाय मुण्डाय कृशायोत्तारणाय च भास्कराय सुतीर्थाय देवदेवाय रंहसे
MBh 14.8.16
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय प्रशान्ताय यतये चीरवाससे
MBh 14.8.17
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च मृगव्याधाय महते धन्विनेऽथ भवाय च
MBh 14.8.18
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्
MBh 14.8.19
पशूनां पतये चैव भूतानां पतये तथा वृषाय मातृभक्ताय सेनान्ये मध्यमाय च
MBh 14.8.20
स्रुवहस्ताय पतये धन्विने भार्गवाय च अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह
MBh 14.8.21
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते
MBh 14.8.22
तथा शुक्राधिपतये पृथवे कृत्तिवाससे कपालमालिने नित्यं सुवर्णमुकुटाय च
MBh 14.8.23
महादेवाय कृष्णाय त्र्यम्बकायानघाय च क्रोधनाय नृशंसाय मृदवे बाहुशालिने
MBh 14.8.24
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे सहस्रशिरसे चैव सहस्रचरणाय च नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे
MBh 14.8.25
पिनाकिनं महादेवं महायोगिनमव्ययम् त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम्
MBh 14.8.26
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् प्रभवं सर्वभूतानां धारणं धरणीधरम्
MBh 14.8.27
ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम् उमापतिं पशुपतिं विश्वरूपं महेश्वरम्
MBh 14.8.28
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम्
MBh 14.8.29
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
MBh 14.8.30
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् शरण्यं शरणं याहि महादेवं चतुर्मुखम्
MBh 14.8.31
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः
MBh 14.8.32
व्यास उवाच इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः
MBh 14.8.33
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः समृद्धिमति देवेभ्यः संतापमकरोद्भृशम्
MBh 14.8.34
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् भविष्यति हि मे शत्रुः संवर्तो वसुमानिति
MBh 14.8.35
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.8local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷