🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 85

The Book of the Horse-Sacrifice · Parva 14 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 14.85.1
वैशंपायन उवाच शकुनेस्तु सुतो वीरो गान्धाराणां महारथः प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना
MBh 14.85.2
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः
MBh 14.85.3
तानुवाच स धर्मात्मा बीभत्सुरपराजितः युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम्
MBh 14.85.4
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः
MBh 14.85.5
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः
MBh 14.85.6
ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात् न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्
MBh 14.85.7
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत्
MBh 14.85.8
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्
MBh 14.85.9
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः
MBh 14.85.10
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः स शक्रसमकर्माणमवाकिरत सायकैः
MBh 14.85.11
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा अपाहरदसंभ्रान्तो जयद्रथशिरो यथा
MBh 14.85.12
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते इच्छता तेन न हतो राजेत्यपि च ते विदुः
MBh 14.85.13
गान्धारराजपुत्रस्तु पलायनकृतक्षणः बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव
MBh 14.85.14
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः
MBh 14.85.15
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः
MBh 14.85.16
संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः
MBh 14.85.17
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः रिपवः पात्यमाना वै ये सहेयुर्महाशरान्
MBh 14.85.18
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्
MBh 14.85.19
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्
MBh 14.85.20
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्
MBh 14.85.21
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ
MBh 14.85.22
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव
MBh 14.85.23
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.85local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷