🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 86
The Book of the Horse-Sacrifice · Parva 14 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 14.86.1
वैशंपायन उवाच
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम्
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्
MBh 14.86.2
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत्
MBh 14.86.3
विजयस्य च तत्कर्म गान्धारविषये तदा
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः
MBh 14.86.4
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम्
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः
MBh 14.86.5
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः
भीमं च नकुलं चैव सहदेवं च कौरवः
MBh 14.86.6
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम्
MBh 14.86.7
आयाति भीमसेनासौ सहाश्वेन तवानुजः
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः
MBh 14.86.8
उपस्थितश्च कालोऽयमभितो वर्तते हयः
माघी च पौर्णमासीयं मासः शेषो वृकोदर
MBh 14.86.9
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्
MBh 14.86.10
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम्
MBh 14.86.11
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु
MBh 14.86.12
तं सशालचयग्रामं संप्रतोलीविटङ्किनम्
मापयामास कौरव्यो यज्ञवाटं यथाविधि
MBh 14.86.13
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम्
कारयामास विधिवन्मणिहेमविभूषितम्
MBh 14.86.14
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम्
MBh 14.86.15
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम्
कारयामास धर्मात्मा तत्र तत्र यथाविधि
MBh 14.86.16
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम्
कारयामास भीमः स विविधानि ह्यनेकशः
MBh 14.86.17
तथा संप्रेषयामास दूतान्नृपतिशासनात्
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम्
MBh 14.86.18
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च
MBh 14.86.19
तेषां निविशतां तेषु शिबिरेषु सहस्रशः
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत्
MBh 14.86.20
तेषामभ्यागतानां स राजा राजीवलोचनः
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः
MBh 14.86.21
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट्
MBh 14.86.22
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः
MBh 14.86.23
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः
MBh 14.86.24
सर्वांश्च ताननुययौ यावदावसथादिति
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः
MBh 14.86.25
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन्
MBh 14.86.26
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम्
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 85
- Next chapter · Aśvamedhika-Parva Ch 87 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.86local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷