🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 77
The Book of the Horse-Sacrifice · Parva 14 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 14.77.1
वैशंपायन उवाच
ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः
विबभौ युधि दुर्धर्षो हिमवानचलो यथा
MBh 14.77.2
ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः
विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत
MBh 14.77.3
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान्
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा
MBh 14.77.4
युध्यध्वं परया शक्त्या यतध्वं च वधे मम
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्
MBh 14.77.5
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम्
तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः
MBh 14.77.6
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत
MBh 14.77.7
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः
MBh 14.77.8
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम्
MBh 14.77.9
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्
इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान्
MBh 14.77.10
बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्
यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः
MBh 14.77.11
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः
MBh 14.77.12
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः
अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः
MBh 14.77.13
ततः शतसहस्राणि शराणां नतपर्वणाम्
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि
MBh 14.77.14
स तानापततः क्रूरानाशीविषविषोपमान्
चिच्छेद निशितैर्बाणैरन्तरैव धनंजयः
MBh 14.77.15
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान्
एकैकमेष दशभिर्बिभेद समरे शरैः
MBh 14.77.16
ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः
MBh 14.77.17
तेषां किरीटी संकल्पं मोघं चक्रे महामनाः
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः
MBh 14.77.18
तथैवापततां तेषां योधानां जयगृद्धिनाम्
शिरांसि पातयामास भल्लैः संनतपर्वभिः
MBh 14.77.19
तेषां प्रद्रवतां चैव पुनरेव च धावताम्
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः
MBh 14.77.20
ते वध्यमानास्तु तदा पार्थेनामिततेजसा
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्
MBh 14.77.21
ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः
कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः
MBh 14.77.22
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा
दुःशला बालमादाय नप्तारं प्रययौ तदा
सुरथस्य सुतं वीरं रथेनानागसं तदा
MBh 14.77.23
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्
सा धनंजयमासाद्य मुमोचार्तस्वरं तदा
धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः
MBh 14.77.24
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा
प्राह किं करवाणीति सा च तं वाक्यमब्रवीत्
MBh 14.77.25
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः
अभिवादयते वीर तं पश्य पुरुषर्षभ
MBh 14.77.26
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्
MBh 14.77.27
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता
पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह
MBh 14.77.28
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय
MBh 14.77.29
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ
विषादार्तः पपातोर्व्यां ममार च ममात्मजः
MBh 14.77.30
तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी
MBh 14.77.31
इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्
MBh 14.77.32
स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्
MBh 14.77.33
अभिमन्योर्यथा जातः परिक्षित्परवीरहा
तथायं सुरथाज्जातो मम पौत्रो महाभुज
MBh 14.77.34
तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम्
शमार्थं सर्वयोधानां शृणु चेदं वचो मम
MBh 14.77.35
आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि
MBh 14.77.36
एष प्रसाद्य शिरसा मया सार्धमरिंदम
याचते त्वां महाबाहो शमं गच्छ धनंजय
MBh 14.77.37
बालस्य हतबन्धोश्च पार्थ किंचिदजानतः
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः
MBh 14.77.38
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि
MBh 14.77.39
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन्
MBh 14.77.40
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्
MBh 14.77.41
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति
MBh 14.77.42
दुःशला चापि तान्योधान्निवार्य महतो रणात्
संपूज्य पार्थं प्रययौ गृहान्प्रति शुभानना
MBh 14.77.43
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः
पुनरेवान्वधावत्स तं हयं कामचारिणम्
MBh 14.77.44
ससार यज्ञियं वीरो विधिवत्स विशां पते
तारामृगमिवाकाशे देवदेवः पिनाकधृक्
MBh 14.77.45
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम्
विचचार यथाकामं कर्म पार्थस्य वर्धयन्
MBh 14.77.46
क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ
मणिपूरपतेर्देशमुपायात्सहपाण्डवः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 76
- Next chapter · Aśvamedhika-Parva Ch 78 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.77local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷