🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 76

The Book of the Horse-Sacrifice · Parva 14 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 14.76.1
वैशंपायन उवाच सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः हतशेषैर्महाराज हतानां च सुतैरपि
MBh 14.76.2
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्
MBh 14.76.3
अश्वं च तं परामृश्य विषयान्ते विषोपमाः न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्
MBh 14.76.4
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम्
MBh 14.76.5
ततस्ते तु महावीर्या राजानः पर्यवारयन् जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि
MBh 14.76.6
ते नामान्यथ गोत्राणि कर्माणि विविधानि च कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्
MBh 14.76.7
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्
MBh 14.76.8
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्
MBh 14.76.9
ते तमाजघ्निरे वीरं निवातकवचान्तकम् संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च
MBh 14.76.10
ततो रथसहस्रेण हयानामयुतेन च कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन्
MBh 14.76.11
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः जयद्रथस्य कौरव्य समरे सव्यसाचिना
MBh 14.76.12
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा
MBh 14.76.13
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः पञ्जरान्तरसंचारी शकुन्त इव भारत
MBh 14.76.14
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः
MBh 14.76.15
ततो ववौ महाराज मारुतो रोमहर्षणः राहुरग्रसदादित्यं युगपत्सोममेव च
MBh 14.76.16
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः
MBh 14.76.17
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च
MBh 14.76.18
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे
MBh 14.76.19
रासभारुणसंकाशा धनुष्मन्तः सविद्युतः आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्
MBh 14.76.20
एवमासीत्तदा वीरे शरवर्षाभिसंवृते लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत्
MBh 14.76.21
तस्य तेनावकीर्णस्य शरजालेन सर्वशः मोहात्पपात गाण्डीवमावापश्च करादपि
MBh 14.76.22
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे
MBh 14.76.23
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन्
MBh 14.76.24
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः
MBh 14.76.25
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव तस्थावचलवद्धीमान्संग्रामे परमास्त्रवित्
MBh 14.76.26
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः
MBh 14.76.27
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः
MBh 14.76.28
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः
MBh 14.76.29
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः
MBh 14.76.30
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली अलातचक्रवद्राजञ्शरजालैः समर्पयत्
MBh 14.76.31
तदिन्द्रजालप्रतिमं बाणजालममित्रहा व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत्
MBh 14.76.32
मेघजालनिभं सैन्यं विदार्य स रविप्रभः विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.76local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷