🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 75

The Book of the Horse-Sacrifice · Parva 14 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 14.75.1
वैशंपायन उवाच एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः
MBh 14.75.2
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्
MBh 14.75.3
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि
MBh 14.75.4
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय
MBh 14.75.5
इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः प्रेषयामास कौरव्य वारणं पाण्डवं प्रति
MBh 14.75.6
संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्
MBh 14.75.7
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् समुक्षत महाराज शैलं नील इवाम्बुदः
MBh 14.75.8
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः मुखाडम्बरघोषेण समाद्रवत फल्गुनम्
MBh 14.75.9
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः आससाद द्रुतं राजन्कौरवाणां महारथम्
MBh 14.75.10
तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा
MBh 14.75.11
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत
MBh 14.75.12
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः निवारयामास तदा वेलेव मकरालयम्
MBh 14.75.13
स नागप्रवरो वीर्यादर्जुनेन निवारितः तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा
MBh 14.75.14
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः
MBh 14.75.15
अर्जुनस्तु महाराज शरैः शरविघातिभिः वारयामास तानस्तांस्तदद्भुतमिवाभवत्
MBh 14.75.16
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम्
MBh 14.75.17
तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति
MBh 14.75.18
स तेन वारणो राजन्मर्मण्यभिहतो भृशम् पपात सहसा भूमौ वज्ररुग्ण इवाचलः
MBh 14.75.19
स पतञ्शुशुभे नागो धनंजयशराहतः विशन्निव महाशैलो महीं वज्रप्रपीडितः
MBh 14.75.20
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः तं न भेतव्यमित्याह ततो भूमिगतं नृपम्
MBh 14.75.21
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः राजानस्ते न हन्तव्या धनंजय कथंचन
MBh 14.75.22
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् योधाश्चापि न हन्तव्या धनंजय रणे त्वया
MBh 14.75.23
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्
MBh 14.75.24
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव
MBh 14.75.25
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् तदाश्वमेधो भविता धर्मराजस्य धीमतः
MBh 14.75.26
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.75local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷