🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 78

The Book of the Horse-Sacrifice · Parva 14 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 14.78.1
वैशंपायन उवाच श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः
MBh 14.78.2
मणिपूरेश्वरं त्वेवमुपयातं धनंजयः नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन्
MBh 14.78.3
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः
MBh 14.78.4
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक
MBh 14.78.5
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वमग्रहीः
MBh 14.78.6
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः
MBh 14.78.7
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते प्रक्रियेयं ततो युक्ता भवेत्तव नराधम
MBh 14.78.8
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत्
MBh 14.78.9
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् संतर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो
MBh 14.78.10
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा उलूपी प्राह वचनं क्षत्रधर्मविशारदा
MBh 14.78.11
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् कुरुष्व वचनं पुत्र धर्मस्ते भविता परः
MBh 14.78.12
युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिंदम एवमेष हि ते प्रीतो भविष्यति न संशयः
MBh 14.78.13
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः मनश्चक्रे महातेजा युद्धाय भरतर्षभ
MBh 14.78.14
संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् तूणीरशतसंबाधमारुरोह महारथम्
MBh 14.78.15
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम्
MBh 14.78.16
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः
MBh 14.78.17
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः
MBh 14.78.18
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे
MBh 14.78.19
ततः स राजा तं वीरं शरव्रातैः सहस्रशः अर्दयामास निशितैराशीविषविषोपमैः
MBh 14.78.20
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् देवासुररणप्रख्यमुभयोः प्रीयमाणयोः
MBh 14.78.21
किरीटिनं तु विव्याध शरेण नतपर्वणा जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः
MBh 14.78.22
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः विनिर्भिद्य च कौन्तेयं महीतलमथाविशत्
MBh 14.78.23
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् दिव्यं तेजः समाविश्य प्रमीत इव संबभौ
MBh 14.78.24
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते
MBh 14.78.25
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक
MBh 14.78.26
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा
MBh 14.78.27
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा
MBh 14.78.28
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्
MBh 14.78.29
हयांश्चास्य महाकायान्महावेगपराक्रमान् चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः
MBh 14.78.30
स रथादवतीर्याशु राजा परमकोपनः पदातिः पितरं कोपाद्योधयामास पाण्डवम्
MBh 14.78.31
संप्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः
MBh 14.78.32
स हन्यमानो विमुखं पितरं बभ्रुवाहनः शरैराशीविषाकारैः पुनरेवार्दयद्बली
MBh 14.78.33
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः
MBh 14.78.34
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत्
MBh 14.78.35
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः महीं जगाम मोहार्तस्ततो राजन्धनंजयः
MBh 14.78.36
तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः
MBh 14.78.37
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः
MBh 14.78.38
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम्
MBh 14.78.39
शोकसंतप्तहृदया रुदती सा ततः शुभा मणिपूरपतेर्माता ददर्श निहतं पतिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.78local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷