🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 72

The Book of the Horse-Sacrifice · Parva 14 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 14.72.1
वैशंपायन उवाच दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम्
MBh 14.72.2
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत
MBh 14.72.3
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा
MBh 14.72.4
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः
MBh 14.72.5
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे
MBh 14.72.6
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः
MBh 14.72.7
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः विधिवत्पृथिवीपाल धर्मराजस्य शासनात्
MBh 14.72.8
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् तमश्वं पृथिवीपाल मुदा युक्तः ससार ह
MBh 14.72.9
आकुमारं तदा राजन्नागमत्तत्पुरं विभो द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम्
MBh 14.72.10
तेषामन्योन्यसंमर्दादूष्मेव समजायत दिदृक्षूणां हयं तं च तं चैव हयसारिणम्
MBh 14.72.11
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम्
MBh 14.72.12
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम्
MBh 14.72.13
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत
MBh 14.72.14
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते
MBh 14.72.15
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन्
MBh 14.72.16
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः
MBh 14.72.17
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः
MBh 14.72.18
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च
MBh 14.72.19
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा चचार स महाराज यथादेशं स सत्तम
MBh 14.72.20
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च
MBh 14.72.21
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम ससारोत्तरतः पूर्वं तन्निबोध महीपते
MBh 14.72.22
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः शनैस्तदा परिययौ श्वेताश्वश्च महारथः
MBh 14.72.23
तत्र संकलना नास्ति राज्ञामयुतशस्तदा येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः
MBh 14.72.24
किराता विकृता राजन्बहवोऽसिधनुर्धराः म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे
MBh 14.72.25
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः
MBh 14.72.26
एवं युद्धानि वृत्तानि तत्र तत्र महीपते अर्जुनस्य महीपालैर्नानादेशनिवासिभिः
MBh 14.72.27
यानि तूभयतो राजन्प्रतप्तानि महान्ति च तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.72local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷