🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 73

The Book of the Horse-Sacrifice · Parva 14 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 14.73.1
वैशंपायन उवाच त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः
MBh 14.73.2
ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् विषयान्ते ततो वीरा दंशिताः पर्यवारयन्
MBh 14.73.3
रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः
MBh 14.73.4
ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः
MBh 14.73.5
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्
MBh 14.73.6
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः
MBh 14.73.7
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति
MBh 14.73.8
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते
MBh 14.73.9
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे वितत्य शरजालेन प्रजहास धनंजयः
MBh 14.73.10
ततस्ते रथघोषेण खुरनेमिस्वनेन च पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्
MBh 14.73.11
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्
MBh 14.73.12
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः मुमुचुः शरवर्षाणि धनंजयवधैषिणः
MBh 14.73.13
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा
MBh 14.73.14
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना
MBh 14.73.15
तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा
MBh 14.73.16
केतुवर्मण्यभिहते धृतवर्मा महारथः रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत्
MBh 14.73.17
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् गुडाकेशो महातेजा बालस्य धृतवर्मणः
MBh 14.73.18
न संदधानं ददृशे नाददानं च तं तदा किरन्तमेव स शरान्ददृशे पाकशासनिः
MBh 14.73.19
स तु तं पूजयामास धृतवर्माणमाहवे मनसा स मुहूर्तं वै रणे समभिहर्षयन्
MBh 14.73.20
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत्
MBh 14.73.21
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा
MBh 14.73.22
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले
MBh 14.73.23
धनुषः पततस्तस्य सव्यसाचिकराद्विभो इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम
MBh 14.73.24
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव जहास सस्वनं हासं धृतवर्मा महाहवे
MBh 14.73.25
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च
MBh 14.73.26
ततो हलहलाशब्दो दिवस्पृगभवत्तदा नानाविधानां भूतानां तत्कर्मातीव शंसताम्
MBh 14.73.27
ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन्
MBh 14.73.28
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः
MBh 14.73.29
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः
MBh 14.73.30
तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः शरैराशीविषाकारैर्जघान स्वनवद्धसन्
MBh 14.73.31
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः
MBh 14.73.32
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् तव स्म किंकराः सर्वे सर्वे च वशगास्तव
MBh 14.73.33
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् करिष्यामः प्रियं सर्वं तव कौरवनन्दन
MBh 14.73.34
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा जीवितं रक्षत नृपाः शासनं गृह्यतामिति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.73local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷