🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 71
The Book of the Horse-Sacrifice · Parva 14 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 14.71.1
वैशंपायन उवाच
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत्
MBh 14.71.2
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः
MBh 14.71.3
व्यास उवाच
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च
विधानं यद्यथाकालं तत्कर्तारो न संशयः
MBh 14.71.4
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति
संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ
MBh 14.71.5
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये
MBh 14.71.6
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम्
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन्
MBh 14.71.7
वैशंपायन उवाच
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना
संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन्
MBh 14.71.8
स संभारान्समाहृत्य नृपो धर्मात्मजस्तदा
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै
MBh 14.71.9
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे
MBh 14.71.10
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव
तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति
MBh 14.71.11
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर
MBh 14.71.12
युधिष्ठिर उवाच
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम्
चरिष्यति यथाकामं तत्र वै संविधीयताम्
MBh 14.71.13
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति
MBh 14.71.14
वैशंपायन उवाच
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्
MBh 14.71.15
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति
शक्तः स हि महीं जेतुं निवातकवचान्तकः
MBh 14.71.16
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति
MBh 14.71.17
स हि धर्मार्थकुशलः सर्वविद्याविशारदः
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्
MBh 14.71.18
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः
अभिमन्योः पिता वीरः स एनमनुयास्यति
MBh 14.71.19
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते
MBh 14.71.20
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः
MBh 14.71.21
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः
चकार फल्गुनं चापि संदिदेश हयं प्रति
MBh 14.71.22
युधिष्ठिर उवाच
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः
MBh 14.71.23
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ
MBh 14.71.24
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः
पार्थिवेभ्यो महाबाहो समये गम्यतामिति
MBh 14.71.25
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम्
भीमं च नकुलं चैव पुरगुप्तौ समादधत्
MBh 14.71.26
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम्
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 70
- Next chapter · Aśvamedhika-Parva Ch 72 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.71local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷