🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 61

The Book of the Horse-Sacrifice · Parva 14 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 14.61.1
वैशंपायन उवाच एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्
MBh 14.61.2
तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम्
MBh 14.61.3
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम्
MBh 14.61.4
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम्
MBh 14.61.5
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन्
MBh 14.61.6
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा अतीव दुःखसंतप्ता न शमं चोपलेभिरे
MBh 14.61.7
तथैव पाण्डवा वीरा नगरे नागसाह्वये नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः
MBh 14.61.8
सुबहूनि च राजेन्द्र दिवसानि विराटजा नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत
MBh 14.61.9
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् उत्तरां च महातेजाः शोकः संत्यज्यतामयम्
MBh 14.61.10
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि प्रभावाद्वासुदेवस्य मम व्याहरणादपि पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्
MBh 14.61.11
धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत
MBh 14.61.12
पौत्रस्तव महाबाहो जनिष्यति महामनाः पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह
MBh 14.61.13
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन विचार्यमत्र न हि ते सत्यमेतद्भविष्यति
MBh 14.61.14
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा
MBh 14.61.15
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा
MBh 14.61.16
एवं पितामहेनोक्तो धर्मात्मा स धनंजयः त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा
MBh 14.61.17
पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते अवर्धत यथाकालं शुक्लपक्षे यथा शशी
MBh 14.61.18
ततः संचोदयामास व्यासो धर्मात्मजं नृपम् अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत्
MBh 14.61.19
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः वित्तोपनयने तात चकार गमने मतिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.61local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷