🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 62

The Book of the Horse-Sacrifice · Parva 14 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 14.62.1
जनमेजय उवाच श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना अश्वमेधं प्रति तदा किं नृपः प्रचकार ह
MBh 14.62.2
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम
MBh 14.62.3
वैशंपायन उवाच श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि
MBh 14.62.4
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता
MBh 14.62.5
तपोवृद्धेन महता सुहृदां भूतिमिच्छता गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा
MBh 14.62.6
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः
MBh 14.62.7
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः
MBh 14.62.8
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः
MBh 14.62.9
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि तदानयामहे सर्वे कथं वा भीम मन्यसे
MBh 14.62.10
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्
MBh 14.62.11
रोचते मे महाबाहो यदिदं भाषितं त्वया व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति
MBh 14.62.12
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो कृतमेव महाराज भवेदिति मतिर्मम
MBh 14.62.13
ते वयं प्रणिपातेन गिरीशस्य महात्मनः तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम्
MBh 14.62.14
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः
MBh 14.62.15
रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे
MBh 14.62.16
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत प्रीतो धर्मात्मजो राजा बभूवातीव भारत अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा
MBh 14.62.17
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे
MBh 14.62.18
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्
MBh 14.62.19
मोदकैः पायसेनाथ मांसापूपैस्तथैव च आशास्य च महात्मानं प्रययुर्मुदिता भृशम्
MBh 14.62.20
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते
MBh 14.62.21
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः
MBh 14.62.22
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम्
MBh 14.62.23
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.62local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷