🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 60
The Book of the Horse-Sacrifice · Parva 14 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 14.60.1
वैशंपायन उवाच
कथयन्नेव तु तदा वासुदेवः प्रतापवान्
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः
MBh 14.60.2
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत
अप्रियं वसुदेवस्य मा भूदिति महामनाः
MBh 14.60.3
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्
दुःखशोकाभिसंतप्तो भवेदिति महामतिः
MBh 14.60.4
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि
MBh 14.60.5
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः
MBh 14.60.6
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्
MBh 14.60.7
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्
MBh 14.60.8
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे
MBh 14.60.9
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते
MBh 14.60.10
किमब्रवीत्त्वा संग्रामे सुभद्रां मातरं प्रति
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम
MBh 14.60.11
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्
MBh 14.60.12
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः
बालभावेन विजयमात्मनोऽकथयत्प्रभुः
MBh 14.60.13
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव
MBh 14.60.14
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम्
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम
MBh 14.60.15
एवंविधं बहु तदा विलपन्तं सुदुःखितम्
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत्
MBh 14.60.16
न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि
न पृष्ठतः कृतश्चापि संग्रामस्तेन दुस्तरः
MBh 14.60.17
निहत्य पृथिवीपालान्सहस्रशतसंघशः
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः
MBh 14.60.18
एको ह्येकेन सततं युध्यमानो यदि प्रभो
न स शक्येत संग्रामे निहन्तुमपि वज्रिणा
MBh 14.60.19
समाहूते तु संग्रामे पार्थे संशप्तकैस्तदा
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे
MBh 14.60.20
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः
MBh 14.60.21
नूनं च स गतः स्वर्गं जहि शोकं महामते
न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित्
MBh 14.60.22
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम्
MBh 14.60.23
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः
शस्त्रपूतां हि स गतिं गतः परपुरंजयः
MBh 14.60.24
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम
दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह
MBh 14.60.25
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्
MBh 14.60.26
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत्
MBh 14.60.27
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः
क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह
MBh 14.60.28
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः
MBh 14.60.29
अभिमन्यो कुशलिनो मातुलास्ते महारथाः
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम्
MBh 14.60.30
आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम
कस्मादेव विलपतीं नाद्येह प्रतिभाषसे
MBh 14.60.31
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम्
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्
MBh 14.60.32
सुभद्रे वासुदेवेन तथा सात्यकिना रणे
पित्रा च पालितो बालः स हतः कालधर्मणा
MBh 14.60.33
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि
पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम्
MBh 14.60.34
कुले महति जातासि क्षत्रियाणां महात्मनाम्
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे
MBh 14.60.35
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी
MBh 14.60.36
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत्
MBh 14.60.37
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च
यमौ यमोपमौ चैव ददौ दानान्यनेकशः
MBh 14.60.38
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह
समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम्
MBh 14.60.39
वैराटि नेह संतापस्त्वया कार्यो यशस्विनि
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम्
MBh 14.60.40
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्
MBh 14.60.41
एवं स निधनं प्राप्तो दौहित्रस्तव माधव
संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 59
- Next chapter · Aśvamedhika-Parva Ch 61 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.60local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷