🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 59

The Book of the Horse-Sacrifice · Parva 14 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 14.59.1
वसुदेव उवाच श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम् नराणां वदतां पुत्र कथोद्घातेषु नित्यशः
MBh 14.59.2
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज तस्मात्प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ
MBh 14.59.3
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्
MBh 14.59.4
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः नानावेषाकृतिमतां नानादेशनिवासिनाम्
MBh 14.59.5
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके शशंस कुरुवीराणां संग्रामे निधनं यथा
MBh 14.59.6
वासुदेव उवाच अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि
MBh 14.59.7
प्राधान्यतस्तु गदतः समासेनैव मे शृणु कर्माणि पृथिवीशानां यथावदमरद्युते
MBh 14.59.8
भीष्मः सेनापतिरभूदेकादशचमूपतिः कौरव्यः कौरवेयाणां देवानामिव वासवः
MBh 14.59.9
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः बभूव रक्षितो धीमान्धीमता सव्यसाचिना
MBh 14.59.10
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम्
MBh 14.59.11
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे जघान बहुभिर्बाणैः सह गाण्डीवधन्वना
MBh 14.59.12
अकरोत्स ततः कालं शरतल्पगतो मुनिः अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे
MBh 14.59.13
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव
MBh 14.59.14
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः
MBh 14.59.15
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा
MBh 14.59.16
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्
MBh 14.59.17
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे नानादिगागता वीराः प्रायशो निधनं गताः
MBh 14.59.18
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः
MBh 14.59.19
ततः सेनापतिरभूत्कर्णो दौर्योधने बले अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे
MBh 14.59.20
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः
MBh 14.59.21
ततः पार्थं समासाद्य पतंग इव पावकम् पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे
MBh 14.59.22
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्
MBh 14.59.23
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्
MBh 14.59.24
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम्
MBh 14.59.25
हते शल्ये तु शकुनिं सहदेवो महामनाः आहर्तारं कलेस्तस्य जघानामितविक्रमः
MBh 14.59.26
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः
MBh 14.59.27
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम्
MBh 14.59.28
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः
MBh 14.59.29
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः उत्थाय स गदापाणिर्युद्धाय समुपस्थितः
MBh 14.59.30
ततः स निहतो राजा धार्तराष्ट्रो महामृधे भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्
MBh 14.59.31
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि निहतं द्रोणपुत्रेण पितुर्वधममृष्यता
MBh 14.59.32
हतपुत्रा हतबला हतमित्रा मया सह युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः
MBh 14.59.33
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्
MBh 14.59.34
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने विदुरः संजयश्चैव धर्मराजमुपस्थितौ
MBh 14.59.35
एवं तदभवद्युद्धमहान्यष्टादश प्रभो यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्
MBh 14.59.36
वैशंपायन उवाच शृण्वतां तु महाराज कथां तां रोमहर्षणीम् दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.59local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷