🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 58

The Book of the Horse-Sacrifice · Parva 14 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 14.58.1
जनमेजय उवाच उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम अत ऊर्ध्वं महाबाहुः किं चकार महायशाः
MBh 14.58.2
वैशंपायन उवाच दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः
MBh 14.58.3
सरांसि च नदीश्चैव वनानि विविधानि च अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम्
MBh 14.58.4
वर्तमाने महाराज महे रैवतकस्य च उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा
MBh 14.58.5
अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ
MBh 14.58.6
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः
MBh 14.58.7
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः गुहानिर्झरदेशेषु दिवाभूतो बभूव ह
MBh 14.58.8
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव
MBh 14.58.9
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः
MBh 14.58.10
प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा
MBh 14.58.11
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्
MBh 14.58.12
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् बभौ परमकल्याणो महस्तस्य महागिरेः
MBh 14.58.13
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः विहारो वृष्णिवीराणां महे रैवतकस्य ह स नगो वेश्मसंकीर्णो देवलोक इवाबभौ
MBh 14.58.14
तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्
MBh 14.58.15
ततः संपूज्यमानः स विवेश भवनं शुभम् गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्
MBh 14.58.16
विवेश च स हृष्टात्मा चिरकालप्रवासकः कृत्वा नसुकरं कर्म दानवेष्विव वासवः
MBh 14.58.17
उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम्
MBh 14.58.18
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा अभ्यवादयत प्रीतः पितरं मातरं तथा
MBh 14.58.19
ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः
MBh 14.58.20
स विश्रान्तो महातेजाः कृतपादावसेचनः कथयामास तं कृष्णः पृष्टः पित्रा महाहवम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.58local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷