🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 57

The Book of the Horse-Sacrifice · Parva 14 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 56 Shlokas

MBh 14.57.1
वैशंपायन उवाच स मित्रसहमासाद्य त्वभिज्ञानमयाचत तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा
MBh 14.57.2
सौदास उवाच न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले
MBh 14.57.3
वैशंपायन उवाच इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले
MBh 14.57.4
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव
MBh 14.57.5
सौदास उवाच प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः
MBh 14.57.6
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् गतिमन्यां न पश्यामि मदयन्तीसहायवान् स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम
MBh 14.57.7
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम्
MBh 14.57.8
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे
MBh 14.57.9
उत्तङ्क उवाच राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप
MBh 14.57.10
सौदास उवाच ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा
MBh 14.57.11
उत्तङ्क उवाच प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः
MBh 14.57.12
स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर
MBh 14.57.13
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः भवत्सकाशमागन्तुं क्षमं मम न वेति वा
MBh 14.57.14
सौदास उवाच क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन
MBh 14.57.15
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम्
MBh 14.57.16
वैशंपायन उवाच इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान्
MBh 14.57.17
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः जवेन महता प्रायाद्गौतमस्याश्रमं प्रति
MBh 14.57.18
यथा तयो रक्षणं च मदयन्त्याभिभाषितम् तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत्
MBh 14.57.19
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः
MBh 14.57.20
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै
MBh 14.57.21
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले
MBh 14.57.22
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले
MBh 14.57.23
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः
MBh 14.57.24
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः
MBh 14.57.25
तस्य वेगमसह्यं तमसहन्ती वसुंधरा दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा
MBh 14.57.26
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्
MBh 14.57.27
रथेन हरियुक्तेन तं देशमुपजग्मिवान् वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम्
MBh 14.57.28
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै
MBh 14.57.29
इतो हि नागलोको वै योजनानि सहस्रशः न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव
MBh 14.57.30
उत्तङ्क उवाच नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम
MBh 14.57.31
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह
MBh 14.57.32
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा नागलोकस्य पन्थानमकरोज्जनमेजय
MBh 14.57.33
स तेन मार्गेण तदा नागलोकं विवेश ह ददर्श नागलोकं च योजनानि सहस्रशः
MBh 14.57.34
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः उपपन्नं महाभाग शातकुम्भमयैस्तथा
MBh 14.57.35
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्
MBh 14.57.36
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः पञ्चयोजनविस्तारमायतं शतयोजनम्
MBh 14.57.37
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा निराशश्चाभवत्तात कुण्डलाहरणे पुनः
MBh 14.57.38
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा
MBh 14.57.39
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे ऐरावतसुतेनेह तवानीते हि कुण्डले
MBh 14.57.40
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा
MBh 14.57.41
उत्तङ्क उवाच कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम्
MBh 14.57.42
अश्व उवाच गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः
MBh 14.57.43
सततं पूजितो विप्र शुचिना भृगुनन्दन तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम्
MBh 14.57.44
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया
MBh 14.57.45
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत घनः प्रादुरभूद्धूमो नागलोकभयावहः
MBh 14.57.46
तेन धूमेन सहसा वर्धमानेन भारत नागलोके महाराज न प्रज्ञायत किंचन
MBh 14.57.47
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् वासुकिप्रमुखानां च नागानां जनमेजय
MBh 14.57.48
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत नीहारसंवृतानीव वनानि गिरयस्तथा
MBh 14.57.49
ते धूमरक्तनयना वह्नितेजोभितापिताः आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः
MBh 14.57.50
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि
MBh 14.57.51
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति
MBh 14.57.52
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते
MBh 14.57.53
ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्
MBh 14.57.54
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ
MBh 14.57.55
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले
MBh 14.57.56
एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 56 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.57local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷