🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 56

The Book of the Horse-Sacrifice · Parva 14 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 14.56.1
वैशंपायन उवाच स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्
MBh 14.56.2
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् प्रत्युत्थाय महातेजा भयकर्ता यमोपमः
MBh 14.56.3
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम
MBh 14.56.4
उत्तङ्क उवाच राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः
MBh 14.56.5
राजोवाच षष्ठे काले ममाहारो विहितो द्विजसत्तम न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै
MBh 14.56.6
उत्तङ्क उवाच एवमस्तु महाराज समयः क्रियतां तु मे गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्
MBh 14.56.7
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर
MBh 14.56.8
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम
MBh 14.56.9
उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्
MBh 14.56.10
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा
MBh 14.56.11
सौदास उवाच यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्ब्रवीहि मे
MBh 14.56.12
उत्तङ्क उवाच प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले
MBh 14.56.13
सौदास उवाच पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत
MBh 14.56.14
उत्तङ्क उवाच अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव
MBh 14.56.15
वैशंपायन उवाच इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम
MBh 14.56.16
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः
MBh 14.56.17
उत्तङ्क उवाच क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति
MBh 14.56.18
सौदास उवाच द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै
MBh 14.56.19
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम्
MBh 14.56.20
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय
MBh 14.56.21
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ अभिज्ञानं तु किंचित्त्वं समानेतुमिहार्हसि
MBh 14.56.22
इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च तैस्तैरुपायैः परिहर्तुकामा;श्छिद्रेषु नित्यं परितर्कयन्ति
MBh 14.56.23
निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः
MBh 14.56.24
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ देवराक्षसनागानामप्रमत्तेन धार्यते
MBh 14.56.25
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते
MBh 14.56.26
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते
MBh 14.56.27
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः
MBh 14.56.28
एवंविधे ममैते वै कुण्डले परमार्चिते त्रिषु लोकेषु विख्याते तदभिज्ञानमानय

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.56local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷