🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 55

The Book of the Horse-Sacrifice · Parva 14 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 14.55.1
जनमेजय उवाच उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे
MBh 14.55.2
वैशंपायन उवाच उत्तङ्को महता युक्तस्तपसा जनमेजय गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत्
MBh 14.55.3
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत
MBh 14.55.4
गौतमस्य तु शिष्याणां बहूनां जनमेजय उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा
MBh 14.55.5
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत्
MBh 14.55.6
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत
MBh 14.55.7
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः
MBh 14.55.8
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ उत्तङ्कः काष्ठभारं च महान्तं समुपानयत्
MBh 14.55.9
स तु भाराभिभूतात्मा काष्ठभारमरिंदम निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः
MBh 14.55.10
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा ततः काष्ठैः सह तदा पपात धरणीतले
MBh 14.55.11
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा
MBh 14.55.12
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा
MBh 14.55.13
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः न हि तानश्रुपातान्वै शक्ता धारयितुं मही
MBh 14.55.14
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः
MBh 14.55.15
उत्तङ्क उवाच भवद्गतेन मनसा भवत्प्रियचिकीर्षया भवद्भक्तिगतेनेह भवद्भावानुगेन च
MBh 14.55.16
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः
MBh 14.55.17
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः
MBh 14.55.18
गौतम उवाच त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ
MBh 14.55.19
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम्
MBh 14.55.20
उत्तङ्क उवाच गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो
MBh 14.55.21
गौतम उवाच दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः
MBh 14.55.22
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह युवा षोडशवर्षो हि यदद्य भविता भवान्
MBh 14.55.23
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम्
MBh 14.55.24
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्
MBh 14.55.25
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि
MBh 14.55.26
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् तदानयेयं तपसा न हि मेऽत्रास्ति संशयः
MBh 14.55.27
अहल्योवाच परितुष्टास्मि ते पुत्र नित्यं भगवता सह पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम्
MBh 14.55.28
वैशंपायन उवाच उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव
MBh 14.55.29
अहल्योवाच सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्
MBh 14.55.30
स तथेति प्रतिश्रुत्य जगाम जनमेजय गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा
MBh 14.55.31
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले
MBh 14.55.32
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै
MBh 14.55.33
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति
MBh 14.55.34
अहल्योवाच अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति
MBh 14.55.35
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.55local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷