🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 51

The Book of the Horse-Sacrifice · Parva 14 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 56 Shlokas

MBh 14.51.1
वैशंपायन उवाच ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः
MBh 14.51.2
तथैव चानुयात्राणि चोदयामास पाण्डवः सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्
MBh 14.51.3
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते आचख्युः सज्जमित्येव पार्थायामिततेजसे
MBh 14.51.4
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते
MBh 14.51.5
रथस्थं तु महातेजा वासुदेवं धनंजयः पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम
MBh 14.51.6
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्
MBh 14.51.7
नाथवन्तश्च भवता पाण्डवा मधुसूदन भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्
MBh 14.51.8
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव यथाहं त्वा विजानामि यथा चाहं भवन्मनाः
MBh 14.51.9
त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो
MBh 14.51.10
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम्
MBh 14.51.11
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः
MBh 14.51.12
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते
MBh 14.51.13
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ
MBh 14.51.14
सुदीर्घेणापि कालेन न ते शक्या गुणा मया आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण
MBh 14.51.15
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात्
MBh 14.51.16
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ
MBh 14.51.17
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया
MBh 14.51.18
यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे
MBh 14.51.19
भवता तत्कृतं कर्म येनावाप्तो जयो मया दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः
MBh 14.51.20
कर्णस्य च वधोपायो यथावत्संप्रदर्शितः सैन्धवस्य च पापस्य भूरिश्रवस एव च
MBh 14.51.21
अहं च प्रीयमाणेन त्वया देवकिनन्दन यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा
MBh 14.51.22
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ
MBh 14.51.23
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान्
MBh 14.51.24
एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम् तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम्
MBh 14.51.25
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्
MBh 14.51.26
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्
MBh 14.51.27
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै
MBh 14.51.28
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्
MBh 14.51.29
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च भीमस्य च महात्मानौ तथा पादावगृह्णताम्
MBh 14.51.30
क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम् तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम्
MBh 14.51.31
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् जनार्दनं च मेधावी व्यसर्जयत वै गृहान्
MBh 14.51.32
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान्
MBh 14.51.33
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः कृष्णः सुष्वाप मेधावी धनंजयसहायवान्
MBh 14.51.34
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ धर्मराजस्य भवनं जग्मतुः परमार्चितौ यत्रास्ते स सहामात्यो धर्मराजो महामनाः
MBh 14.51.35
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ धर्मराजानमासीनं देवराजमिवाश्विनौ
MBh 14.51.36
तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै
MBh 14.51.37
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः
MBh 14.51.38
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम्
MBh 14.51.39
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् विनीतवदुपागम्य वाक्यं वाक्यविशारदः
MBh 14.51.40
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति
MBh 14.51.41
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि
MBh 14.51.42
युधिष्ठिर उवाच पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम्
MBh 14.51.43
रोचते मे महाबाहो गमनं तव केशव मातुलश्चिरदृष्टो मे त्वया देवी च देवकी
MBh 14.51.44
मातुलं वसुदेवं त्वं बलदेवं च माधव पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः
MBh 14.51.45
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् फल्गुनं नकुलं चैव सहदेवं च माधव
MBh 14.51.46
आनर्तानवलोक्य त्वं पितरं च महाभुज वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ
MBh 14.51.47
स गच्छ रत्नान्यादाय विविधानि वसूनि च यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत
MBh 14.51.48
इयं हि वसुधा सर्वा प्रसादात्तव माधव अस्मानुपगता वीर निहताश्चापि शत्रवः
MBh 14.51.49
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे वासुदेवो वरः पुंसामिदं वचनमब्रवीत्
MBh 14.51.50
तवैव रत्नानि धनं च केवल;म्धरा च कृत्स्ना तु महाभुजाद्य वै यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः
MBh 14.51.51
तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान् पितृष्वसामभ्यवदद्यथाविधि; संपूजितश्चाप्यगमत्प्रदक्षिणम्
MBh 14.51.52
तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः
MBh 14.51.53
रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः
MBh 14.51.54
तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः
MBh 14.51.55
निवर्तयित्वा कुरुराष्ट्रवर्धनां;स्ततः स सर्वान्विदुरं च वीर्यवान् जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा
MBh 14.51.56
ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः यथा निहत्यारिगणाञ्शतक्रतु;र्दिवं तथानर्तपुरीं प्रतापवान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 56 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.51local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷