🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 51
The Book of the Horse-Sacrifice · Parva 14 · 56 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 14.51local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 56 Shlokas
MBh 14.51.1
[व]
ततॊ ऽभयचॊदयत कृष्णॊ युज्यताम इति दारुकम
मुहूर्ताद इव चाचष्ट युक्तम इत्य एव दारुकः
MBh 14.51.2
तथैव चानुयात्राणि चॊदयाम आस पाण्डवः
सज्जयध्वं परयास्यामॊ नगरं गजसाह्वयम
MBh 14.51.3
इत्य उक्ताः सैनिकास ते तु सज्जीभूता विशां पते
आचख्युः सज्जम इत्य एव पार्थायामित तेजसे
MBh 14.51.4
ततस तौ रथम आस्थाय परयातौ कृष्ण पाण्डवौ
विकुर्वाणौ कथाश चित्राः परीयमाणौ विशां पते
MBh 14.51.5
रथस्थं तु महातेजा वासुदेवं धनंजयः
पुनर एवाब्रवीद वाक्यम इदं भरतसत्तम
MBh 14.51.6
तवत्प्रसादाज जयः पराप्तॊ राज्ञा वृष्णिकुलॊद्वह
निहताः शत्रवश चापि पराप्तं राज्यम अकण्टकम
MBh 14.51.7
नाथवन्तश च भवता पाण्डवा मधुसूदन
भवन्तं पलवम आसाद्य तीर्णाः सम कुरु सागरम
MBh 14.51.8
विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव
यथाहं तवा विजानामि यथा चाहं भवन मनाः
MBh 14.51.9
तवत तेजः संभवॊ नित्यं कुताशॊ मधुसूदन
रतिः करीडामयी तुभ्यं माया ते रॊदसी विभॊ
MBh 14.51.10
तवयि सर्वम इदं विश्वं यद इदं सथाणुजङ्गमम
तवं हि सर्वं विकुरुषे भूतग्रामं सनातनम
MBh 14.51.11
पृथिवीं चान्तरिक्षं च तथा सथावरजङ्गमम
हसितं ते ऽमला जयॊत्स्ना ऋतवश चेन्द्रियान्वयाः
MBh 14.51.12
पराणॊ वायुः सततगः करॊधॊ मृत्युः सनातनः
परसादे चापि पद्मा शरीर नित्यं तवयि महामते
MBh 14.51.13
रतिस तुष्टिर धृतिः कषान्तिस तवयि चेदं चराचरम
तवम एवेह युगान्तेषु निधनं परॊच्यसे ऽनघ
MBh 14.51.14
सुदीर्घेणापि कालेन न ते शक्या गुणा मया
आत्मा च परमॊ वक्तुं नमस ते नलिनेक्षण
MBh 14.51.15
विदितॊ मे ऽसि दुर्धर्ष नारदाद देवलात तथा
कृष्णद्वैपायनाच चैव तथा कुरुपितामहात
MBh 14.51.16
तवयि सर्वं समासक्तं तवम एवैकॊ जनेश्वरः
यच चानुग्रह संयुक्तम एतद उक्तं तवयानघ
MBh 14.51.17
एतत सर्वम अहं सम्यग आचरिष्ये जनार्दन
इदं चाद्भुतम अत्यर्थं कृतम अस्मत्प्रियेप्सया
MBh 14.51.18
यत पापॊ निहतः संख्ये कौरव्यॊ धृतराष्ट्रजः
तवया दग्धं हि तत सौन्यं मया विजितम आहवे
MBh 14.51.19
भवता तत कृतं कर्म येनावाप्तॊ जयॊ मया
दुर्यॊधनस्य संग्रामे तव बुद्धिपराक्रमैः
MBh 14.51.20
कर्णस्य च वधॊपायॊ यथावत संप्रदर्शितः
सैन्धवस्य च पापस्य भूरिश्रवस एव च
MBh 14.51.21
अहं च परीयमाणेन तवया देवकिनन्दन
यद उक्तस तत करिष्यामि न हि मे ऽतर विचारणा
MBh 14.51.22
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम
चॊदयिष्यामि धर्मज्ञ गमनार्थं तवानघ
MBh 14.51.23
रुचितं हि ममैतत ते दवारकागमनं परभॊ
अचिराच चैव दृष्टा तवं मातुलं मधुसूदन
बलदेवं च दुर्धर्षं तथान्यान वृष्णिपुंगवान
MBh 14.51.24
एवं संभाषमाणौ तौ पराप्तौ वारणसाह्वयम
तथा विविशतुश चॊभौ संप्रहृष्टनराकुलम
MBh 14.51.25
तौ गत्वा धृतराष्ट्रस्य गृहं शक्र गृहॊपमम
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम
MBh 14.51.26
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
धृतराष्ट्रम उपासीनं युयुत्सुं चापराजितम
MBh 14.51.27
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम
सुभद्राद्याश च ताः सर्वा भरतानां सत्रियस तथा
ददृशाते सथिताः सर्वा गान्धारीं परिवार्य वै
MBh 14.51.28
ततः समेत्य राजानं धृतराष्ट्रम अरिंदमौ
निवेद्य नामधेये सवे तस्य पादाव अगृह्णताम
MBh 14.51.29
गान्धार्याश च पृथायाश च धर्मराज्ञस तथैव च
भीमस्य च महात्मानौ तथा पादावगृह्णताम
MBh 14.51.30
कषत्तारं चापि संपूज्य पृष्ट्वा कुशलम अव्ययम
तैः सार्धं नृपतिमं वृद्धं ततस तं पर्युपासताम
MBh 14.51.31
ततॊ निशि महाराज धृतराष्ट्रः कुरूद्वहान
जनार्दनं च मेधावी वयसर्जयत वै गृहान
MBh 14.51.32
ते ऽनुज्ञाता नृपतिना ययुः सवं सवं निवेशनम
धनंजय गृहान एव ययौ कृष्णस तु वीर्यवान
MBh 14.51.33
तत्रार्चितॊ यथान्यायं सर्वकामैर उपस्थितः
कृष्णः सुष्वाप मेधावी धनंजय सहायवान
MBh 14.51.34
परभातायां तु शर्वर्यां कृतपूर्वाह्णिक करियौ
धर्मराजस्य भवनं जग्मतुः परमार्चितौ
यत्रास्ते स सहामात्यॊ धर्मराजॊ महामनाः
MBh 14.51.35
ततस तौ तत परविश्याथ ददृशाते महाबलौ
धर्मराजानम आसीनं देवराजम इवाश्विनौ
MBh 14.51.36
तौ समासाद्य राजानं वार्ष्णेय कुर पुंगवौ
निषीदतुर अनुज्ञातौ परीयमाणेन तेन वै
MBh 14.51.37
ततः स राजा मेधावी विविक्षू परेक्ष्य ताव उभौ
परॊवाच वदतां शरेष्ठॊ वचनं राजसत्तमः
MBh 14.51.38
विविक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ
बरूत कर्तास्मि सर्वं वां नचिरान मा विचार्यताम
MBh 14.51.39
इत्य उक्ते फल्गुनस तत्र धर्मराजानम अब्रवीत
विनीतवद उपागम्य वाक्यं वाक्यविशारदः
MBh 14.51.40
अयं चिरॊषितॊ राजन वासुदेवः परतापवान
भवन्तं समनुज्ञाप्य पितरं दरष्टुम इच्छति
MBh 14.51.41
स गच्छेद अभ्यनुज्ञातॊ भवता यदि मन्यसे
आनर्तनगरीं वीरस तदनुज्ञातुम अर्हसि
MBh 14.51.42
[य]
पुण्डरीकाक्ष भद्रं ते गच्छ तवं मधुसूदन
पुरीं दवारवतीम अद्य दरष्टुं शूर सुतं परभुम
MBh 14.51.43
रॊचते मे महाबाहॊ गमनं तव केशव
मातुलश चिरदृष्टॊ मे तवया देवी च देवकी
MBh 14.51.44
मातुलं वसुदेवं तवं बलदेवं च माधव
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः
MBh 14.51.45
समरेथाश चापि मां नित्यं भीमं च बलिनां वरम
फल्गुनं नकुलं चैव सहदेवं च माधव
MBh 14.51.46
आनर्तान अवलॊक्य तवं पितरं च महाभुज
वृष्णींश च पुनर आगच्छेर हयमेधे ममानघ
MBh 14.51.47
स गच्छ रत्नान्य आदाय विविधानि वसूनि च
यच चाप्य अन्यन मनॊज्ञं ते तद अप्य आदत्स्व सात्वत
MBh 14.51.48
इयं हि वसुधा सर्वा परसादात तव माधव
अस्मान उपगता वीर निहताश चापि शत्रवः
MBh 14.51.49
एवं बरुवति कौरव्ये धर्मराजे युधिष्ठिरे
वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत
MBh 14.51.50
तवैव रत्नानि धनं च केवलं; धरा च कृत्स्ना तु महाभुजाद्य वै
यद अस्ति चान्यद दरविणं गृहेषु मे; तवम एव तस्येश्वर नित्यम ईश्वरः
MBh 14.51.51
तथेत्य अथॊक्तः परतिपूजितस तदा; गदाग्रजॊ धर्मसुतेन वीर्यवान
पितृष्वसाम अभ्यवदद यथाविधि; संपूजितश चाप्य अगमत परदक्षिणम
MBh 14.51.52
तया स सम्यक परतिनन्दितस तदा; तथैव सर्वैर विदुरादिभिस ततः
विनिर्ययौ नागपुराद गदाग्रजॊ; रथेन दिव्येन चतुर्युजा हरिः
MBh 14.51.53
रथं सुभद्राम अधिरॊप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः
पितृष्वसायाश च तथा महाभुजॊ; विनिर्ययौ पौरजनाभिसंवृतः
MBh 14.51.54
तम अन्वगाद वानरवर्य केतनः; स सात्यक्तिर माद्रवतीसुताव अपि
अगाध बुद्धिर विदुरश च माधवं; सवयं च भीमॊ गजराजविक्रमः
MBh 14.51.55
निवर्तयित्वा कुरु राष्ट्रवर्धनांस; ततः स सर्वान विदुरं च वीर्यवान
जनार्दनॊ दारुकम आह स तवरः; परचॊदयाश्वान इति सात्यकिस तदा
MBh 14.51.56
ततॊ ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतॊ जनार्दनः
यथा निहत्यारि गणाञ शतक्रतुर; दिवं तथानर्तपुरीं परतापवान
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 50
- Next chapter · Aśvamedhika-Parva Ch 52 →
🪷 जय व्यास भगवान् 🪷