🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 50
The Book of the Horse-Sacrifice · Parva 14 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 14.50.1
ब्रह्मोवाच
भूतानामथ पञ्चानां यथैषामीश्वरं मनः
नियमे च विसर्गे च भूतात्मा मन एव च
MBh 14.50.2
अधिष्ठाता मनो नित्यं भूतानां महतां तथा
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते
MBh 14.50.3
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः
इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा
MBh 14.50.4
महाभूतसमायुक्तं बुद्धिसंयमनं रथम्
तमारुह्य स भूतात्मा समन्तात्परिधावति
MBh 14.50.5
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः
MBh 14.50.6
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्
स धीरः सर्वलोकेषु न मोहमधिगच्छति
MBh 14.50.7
अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम्
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम्
MBh 14.50.8
नदीपर्वतजालैश्च सर्वतः परिभूषितम्
विविधाभिस्तथाद्भिश्च सततं समलंकृतम्
MBh 14.50.9
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः
एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित्
MBh 14.50.10
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः
MBh 14.50.11
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्
MBh 14.50.12
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा
MBh 14.50.13
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम्
MBh 14.50.14
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः
तथैव वेदानृषयस्तपसा प्रतिपेदिरे
MBh 14.50.15
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः
MBh 14.50.16
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम्
MBh 14.50.17
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्
MBh 14.50.18
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः
MBh 14.50.19
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः
यानि चान्यानि भूतानि त्रसानि स्थावराणि च
MBh 14.50.20
तपःपरायणा नित्यं सिध्यन्ते तपसा सदा
तथैव तपसा देवा महाभागा दिवं गताः
MBh 14.50.21
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
अहंकारसमायुक्तास्ते सकाशे प्रजापतेः
MBh 14.50.22
ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्
MBh 14.50.23
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया
MBh 14.50.24
ध्यानयोगादुपागम्य निर्ममा निरहंकृताः
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम्
MBh 14.50.25
अव्यक्तादेव संभूतः समयज्ञो गतः पुनः
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम्
MBh 14.50.26
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित्
MBh 14.50.27
चित्तं चित्तादुपागम्य मुनिरासीत संयतः
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम्
MBh 14.50.28
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम्
निबोधत यथा हीदं गुणैर्लक्षणमित्युत
MBh 14.50.29
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्
MBh 14.50.30
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः
ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते
MBh 14.50.31
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः
पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम्
MBh 14.50.32
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः
MBh 14.50.33
अपूर्वममृतं नित्यं य एनमविचारिणम्
य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम्
अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः
MBh 14.50.34
अपोह्य सर्वसंकल्पान्संयम्यात्मानमात्मनि
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते
MBh 14.50.35
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात्
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम्
MBh 14.50.36
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः
MBh 14.50.37
एषा गतिरसक्तानामेष धर्मः सनातनः
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम्
MBh 14.50.38
समेन सर्वभूतेषु निःस्पृहेण निराशिषा
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना
MBh 14.50.39
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ
MBh 14.50.40
गुरुरुवाच
इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा
कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन्
MBh 14.50.41
त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि
MBh 14.50.42
वासुदेव उवाच
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्
MBh 14.50.43
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति
MBh 14.50.44
अर्जुन उवाच
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो
MBh 14.50.45
वासुदेव उवाच
अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे
त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनंजय
MBh 14.50.46
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत
MBh 14.50.47
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम्
MBh 14.50.48
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते
मया तव महाबाहो तस्मादत्र मनः कुरु
MBh 14.50.49
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो
तमहं द्रष्टुमिच्छामि संमते तव फल्गुन
MBh 14.50.50
वैशंपायन उवाच
इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै
MBh 14.50.51
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम्
समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 49
- Next chapter · Aśvamedhika-Parva Ch 51 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.50local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷