🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 49
The Book of the Horse-Sacrifice · Parva 14 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 55 Shlokas
MBh 14.49.1
ब्रह्मोवाच
हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्
MBh 14.49.2
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्
MBh 14.49.3
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः
MBh 14.49.4
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः
लोभमोहसमायुक्तास्ते वै निरयगामिनः
MBh 14.49.5
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः
MBh 14.49.6
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः
MBh 14.49.7
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः
MBh 14.49.8
विषयो विषयित्वं च संबन्धोऽयमिहोच्यते
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः
MBh 14.49.9
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम्
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते
MBh 14.49.10
अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम्
निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
MBh 14.49.11
समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत्
MBh 14.49.12
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः
MBh 14.49.13
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा
MBh 14.49.14
यथा प्रदीपमादाय कश्चित्तमसि गच्छति
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः
MBh 14.49.15
यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति
MBh 14.49.16
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः
MBh 14.49.17
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते
MBh 14.49.18
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते
MBh 14.49.19
यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित्
क्लेशेन याति महता विनश्यत्यन्तरापि वा
MBh 14.49.20
तथा कर्मसु विज्ञेयं फलं भवति वा न वा
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्
MBh 14.49.21
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः
MBh 14.49.22
तमेव च यथाध्वानं रथेनेहाशुगामिना
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः
MBh 14.49.23
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम्
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्
MBh 14.49.24
यावद्रथपथस्तावद्रथेन स तु गच्छति
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति
MBh 14.49.25
एवं गच्छति मेधावी तत्त्वयोगविधानवित्
समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम्
MBh 14.49.26
यथा महार्णवं घोरमप्लवः संप्रगाहते
बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम्
MBh 14.49.27
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया
अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम्
MBh 14.49.28
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ
MBh 14.49.29
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा
ममत्वेनाभिभूतः स तत्रैव परिवर्तते
MBh 14.49.30
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्
तथैव रथमारुह्य नाप्सु चर्या विधीयते
MBh 14.49.31
एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक्
यथा कर्म कृतं लोके तथा तदुपपद्यते
MBh 14.49.32
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते
MBh 14.49.33
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्
महतः प्रधानभूतस्य गुणोऽहंकार एव च
MBh 14.49.34
अहंकारप्रधानस्य महाभूतकृतो गुणः
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः
MBh 14.49.35
बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम्
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्
MBh 14.49.36
बीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः
बीजप्रसवधर्माणि महाभूतानि पञ्च वै
MBh 14.49.37
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम्
MBh 14.49.38
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः
MBh 14.49.39
पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला
सर्वभूतकरी देवी शुभाशुभनिदर्शना
MBh 14.49.40
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः
MBh 14.49.41
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्
MBh 14.49.42
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत
MBh 14.49.43
शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः
MBh 14.49.44
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः
MBh 14.49.45
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्
MBh 14.49.46
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम्
MBh 14.49.47
एवं द्वादशविस्तारं तेजसो रूपमुच्यते
विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः
MBh 14.49.48
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः
MBh 14.49.49
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः
MBh 14.49.50
एवं द्वादशविस्तारो वायव्यो गुण उच्यते
विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः
MBh 14.49.51
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान्
MBh 14.49.52
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा
अतः परं तु विज्ञेयो निषादो धैवतस्तथा
MBh 14.49.53
इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान्
एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः
MBh 14.49.54
आकाशमुत्तमं भूतमहंकारस्ततः परम्
अहंकारात्परा बुद्धिर्बुद्धेरात्मा ततः परः
MBh 14.49.55
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः
परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 48
- Next chapter · Aśvamedhika-Parva Ch 50 →
Sources and Connected Readings
Continue from these 55 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.49local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷