🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 52
The Book of the Horse-Sacrifice · Parva 14 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 14.52.1
वैशंपायन उवाच
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः
MBh 14.52.2
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः
आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः
MBh 14.52.3
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम्
संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः
MBh 14.52.4
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु
MBh 14.52.5
वायुर्वेगेन महता रथस्य पुरतो ववौ
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्
MBh 14.52.6
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः
MBh 14.52.7
स प्रयातो महाबाहुः समेषु मरुधन्वसु
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम्
MBh 14.52.8
स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः
पूजितस्तेन च तदा पर्यपृच्छदनामयम्
MBh 14.52.9
स पृष्टः कुशलं तेन संपूज्य मधुसूदनम्
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्
MBh 14.52.10
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि
MBh 14.52.11
अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव
संबन्धिनः सुदयितान्सततं वृष्णिपुंगव
MBh 14.52.12
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः
लोकेषु विहरिष्यन्ति त्वया सह परंतप
MBh 14.52.13
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्
कौरवेषु प्रशान्तेषु त्वया नाथेन माधव
MBh 14.52.14
या मे संभावना तात त्वयि नित्यमवर्तत
अपि सा सफला कृष्ण कृता ते भरतान्प्रति
MBh 14.52.15
वासुदेव उवाच
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति
न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया
MBh 14.52.16
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः
न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा
महर्षे विदितं नूनं सर्वमेतत्तवानघ
MBh 14.52.17
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च
ततो यमक्षयं जग्मुः समासाद्येतरेतरम्
MBh 14.52.18
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः
MBh 14.52.19
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने
MBh 14.52.20
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः
संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्
MBh 14.52.21
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन
MBh 14.52.22
त्वया हि शक्तेन सता मिथ्याचारेण माधव
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः
MBh 14.52.23
वासुदेव उवाच
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव
MBh 14.52.24
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै
न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान्
MBh 14.52.25
न च ते तपसो नाशमिच्छामि जपतां वर
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः
MBh 14.52.26
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 51
- Next chapter · Aśvamedhika-Parva Ch 53 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.52local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷