🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 5
The Book of the Horse-Sacrifice · Parva 14 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 14.5.1
युधिष्ठिर उवाच
कथंवीर्यः समभवत्स राजा वदतां वरः
कथं च जातरूपेण समयुज्यत स द्विज
MBh 14.5.2
क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन
MBh 14.5.3
व्यास उवाच
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्
MBh 14.5.4
तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः
MBh 14.5.5
तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम्
बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः
MBh 14.5.6
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्
MBh 14.5.7
वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्
पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम्
MBh 14.5.8
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः
MBh 14.5.9
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः
MBh 14.5.10
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः
संजीव्य कालमिष्टं च सशरीरो दिवं गतः
MBh 14.5.11
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्
अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम्
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः
MBh 14.5.12
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्
पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा
MBh 14.5.13
स्पर्धते सततं स स्म देवराजेन पार्थिवः
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन
MBh 14.5.14
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः
यतमानोऽपि यं शक्रो न विशेषयति स्म ह
MBh 14.5.15
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्
उवाचेदं वचो देवैः सहितो हरिवाहनः
MBh 14.5.16
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन
दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम्
MBh 14.5.17
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः
MBh 14.5.18
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया
MBh 14.5.19
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्
MBh 14.5.20
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः
मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत्
MBh 14.5.21
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च
MBh 14.5.22
त्वमाजहर्थ देवानामेको वीर श्रियं पराम्
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन
MBh 14.5.23
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर
याजयेयमहं मर्त्यं मरुत्तं पाकशासन
MBh 14.5.24
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित्
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम
MBh 14.5.25
हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी
भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि
MBh 14.5.26
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 4
- Next chapter · Aśvamedhika-Parva Ch 6 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.5local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷