🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 4

The Book of the Horse-Sacrifice · Parva 14 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 14.4.1
युधिष्ठिर उवाच शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ
MBh 14.4.2
व्यास उवाच आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः
MBh 14.4.3
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः
MBh 14.4.4
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः
MBh 14.4.5
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् विंशस्य पुत्रः कल्याणो विविंशो नाम भारत
MBh 14.4.6
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः
MBh 14.4.7
दानधर्मरताः सन्तः सततं प्रियवादिनः तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत्
MBh 14.4.8
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः
MBh 14.4.9
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा
MBh 14.4.10
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा नियतो वर्तयामास प्रजाहितचिकीर्षया
MBh 14.4.11
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्
MBh 14.4.12
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन्
MBh 14.4.13
स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च
MBh 14.4.14
न चैनं परिहर्तुं तेऽशक्नुवन्परिसंक्षये सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर
MBh 14.4.15
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम्
MBh 14.4.16
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः
MBh 14.4.17
तस्य कारंधमः पुत्रस्त्रेतायुगमुखेऽभवत् इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः
MBh 14.4.18
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा स हि सम्राडभूत्तेषां वृत्तेन च बलेन च
MBh 14.4.19
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः
MBh 14.4.20
तेजसादित्यसदृशः क्षमया पृथिवीसमः बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः
MBh 14.4.21
कर्मणा मनसा वाचा दमेन प्रशमेन च मनांस्याराधयामास प्रजानां स महीपतिः
MBh 14.4.22
य ईजे हयमेधानां शतेन विधिवत्प्रभुः याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः
MBh 14.4.23
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः
MBh 14.4.24
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत कारयामास शुभ्राणि भाजनानि सहस्रशः
MBh 14.4.25
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः
MBh 14.4.26
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते
MBh 14.4.27
तस्यैव च समीपे स यज्ञवाटो बभूव ह ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.4local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷