🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 3

The Book of the Horse-Sacrifice · Parva 14 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 14.3.1
व्यास उवाच युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः
MBh 14.3.2
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः करोति पुरुषः कर्म तत्र का परिदेवना
MBh 14.3.3
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः शृणु तत्र यथा पापमपकृष्येत भारत
MBh 14.3.4
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते
MBh 14.3.5
यज्ञेन तपसा चैव दानेन च नराधिप पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः
MBh 14.3.6
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम्
MBh 14.3.7
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्
MBh 14.3.8
राजसूयाश्वमेधौ च सर्वमेधं च भारत नरमेधं च नृपते त्वमाहर युधिष्ठिर
MBh 14.3.9
यजस्व वाजिमेधेन विधिवद्दक्षिणावता बहुकामान्नवित्तेन रामो दाशरथिर्यथा
MBh 14.3.10
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः शाकुन्तलो महावीर्यस्तव पूर्वपितामहः
MBh 14.3.11
युधिष्ठिर उवाच असंशयं वाजिमेधः पावयेत्पृथिवीमपि अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि
MBh 14.3.12
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे
MBh 14.3.13
न च बालानिमान्दीनानुत्सहे वसु याचितुम् तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान्
MBh 14.3.14
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम करमाहारयिष्यामि कथं शोकपरायणान्
MBh 14.3.15
दुर्योधनापराधेन वसुधा वसुधाधिपाः प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम
MBh 14.3.16
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः
MBh 14.3.17
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः
MBh 14.3.18
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि
MBh 14.3.19
वैशंपायन उवाच एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत्
MBh 14.3.20
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति
MBh 14.3.21
युधिष्ठिर उवाच कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् कस्मिंश्च काले स नृपो बभूव वदतां वर
MBh 14.3.22
व्यास उवाच यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् यस्मिन्काले महावीर्यः स राजासीन्महाधनः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.3local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷