🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 2

The Book of the Horse-Sacrifice · Parva 14 · 20 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 20 Shlokas

MBh 14.2.1
[व] एवम उक्तस तु राज्ञा स धृतराष्ट्रेण धीमता तूष्णीं बभूव मेधावी तम उवाचाथ केशवः
MBh 14.2.2
अतीव मनसा शॊकः करियमाणॊ जनाधिप संतापयति वैतस्य पूर्वप्रेतान पितामहान
MBh 14.2.3
यजस्व विविधैर यज्ञैर बहुभिः सवाप्तदक्षिणैः देवांस तर्पय सॊमेन सवधया च पितॄन अपि
MBh 14.2.4
तवद्विधस्य महाबुद्धे नैतद अद्यॊपपद्यते विदितं वेदितव्यं ते कर्तव्यम अपि ते कृतम
MBh 14.2.5
शरुताश च राजधर्मास ते भीष्माद भागीरथी सुतात कृष्णद्वैपायनाच चैव नारदाद विदुरात तथा
MBh 14.2.6
नेमाम अर्हसि मूढानां वृत्तिं तवम अनुवर्तितुम पितृपैतामहीं वृत्तिम आस्थाय धुरम उद्वह
MBh 14.2.7
युक्तं हि यशसा कषत्रं सवर्गं पराप्तुम असंशयम न हि कश चन शूराणां निहतॊ ऽतर पराङ्मुखः
MBh 14.2.8
तयज शॊकं महाराज भवितव्यं हि तत तथा न शक्यास ते पुनर दरष्टुं तवया हय अस्मिन रणे हताः
MBh 14.2.9
एतावद उक्त्वा गॊविन्दॊ धर्मराजं युधिष्ठिरम विरराम महातेजास तम उवाच युधिष्ठिरः
MBh 14.2.10
गॊविन्द मयि या परीतिस तव सा विदिता मम सौहृदेन तथा परेम्णा सदा माम अनुकम्पसे
MBh 14.2.11
परियं तु मे सयात सुमहत कृतं चक्रगदाधर शरीमन परीतेन मनसा सर्वं यावदनन्दन
MBh 14.2.12
यदि माम अनुजानीयाद भवान गन्तुं तपॊवनम न हि शान्तिं परपश्यामि घातयित्वा पितामहम कर्णं च पुरुषव्याघ्रं संग्रामेष्व अपलायिनम
MBh 14.2.13
कर्मणा येन मुच्येयम अस्मात करूराद अरिंदम कर्मणस तद विधत्स्वेह येन शुध्यति मे मनः
MBh 14.2.14
तम एवं वादिनं वयासस ततः परॊवाच धर्मवित सान्त्वयन सुमहातेजाः शुभं वचनम अर्थवत
MBh 14.2.15
अकृता ते मतिस तात पुनर बाल्येन मुह्यसे किम आकाशे वयं सर्वे परलपाम मुहुर मुहुः
MBh 14.2.16
विदिताः कषत्रधर्मास ते येषां युद्धेन जीविका यथा परवृत्तॊ नृपतिर नाधिबन्धेन युज्यते
MBh 14.2.17
मॊक्षधर्माश च निखिला याथातथ्येन ते शरुताः असकृच चैव संदेहाच छिन्नास ते कामजा मया
MBh 14.2.18
अश्रद्दधानॊ दुर्मेधा लुप्तस्मृतिर असि धरुवम मैवं भव न ते युक्तम इदम अज्ञानम ईदृशम
MBh 14.2.19
परायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ युद्धधर्माश च ते सर्वे दानधर्माश च ते शरुताः
MBh 14.2.20
स कथं सर्वधर्मज्ञः सर्वागम विशारदः परिमुह्यसि भूयस तवम अज्ञानाद इव भारत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷