🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 6
The Book of the Horse-Sacrifice · Parva 14 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 14.6.1
व्यास उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादं मरुत्तस्य च भारत
MBh 14.6.2
देवराजस्य समयं कृतमाङ्गिरसेन ह
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा
MBh 14.6.3
संकल्प्य मनसा यज्ञं करंधमसुतात्मजः
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्
MBh 14.6.4
भगवन्यन्मया पूर्वमभिगम्य तपोधन
कृतोऽभिसंधिर्यज्ञाय भवतो वचनाद्गुरो
MBh 14.6.5
तमहं यष्टुमिच्छामि संभाराः संभृताश्च मे
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च
MBh 14.6.6
बृहस्पतिरुवाच
न कामये याजयितुं त्वामहं पृथिवीपते
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे
MBh 14.6.7
मरुत्त उवाच
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम्
न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम्
MBh 14.6.8
बृहस्पतिरुवाच
अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम्
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात्
MBh 14.6.9
न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति
MBh 14.6.10
व्यास उवाच
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्
प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम्
MBh 14.6.11
देवर्षिणा समागम्य नारदेन स पार्थिवः
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत्
MBh 14.6.12
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ
क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम्
MBh 14.6.13
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप
MBh 14.6.14
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा
विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत्
MBh 14.6.15
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्
यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत
MBh 14.6.16
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद
MBh 14.6.17
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह
आविक्षितं महाराज वाचा संजीवयन्निव
MBh 14.6.18
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः
MBh 14.6.19
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः
प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति
MBh 14.6.20
मरुत्त उवाच
संजीवितोऽहं भवता वाक्येनानेन नारद
पश्येयं क्व नु संवर्तं शंस मे वदतां वर
MBh 14.6.21
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे
MBh 14.6.22
नारद उवाच
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम्
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते
MBh 14.6.23
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्
तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते
MBh 14.6.24
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान्
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः
MBh 14.6.25
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह
ब्रूयास्त्वं नारदेनेति संतप्त इव शत्रुहन्
MBh 14.6.26
स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया
MBh 14.6.27
व्यास उवाच
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम्
MBh 14.6.28
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः
कुणपं स्थापयामास नारदस्य वचः स्मरन्
MBh 14.6.29
यौगपद्येन विप्रश्च स पुरीद्वारमाविशत्
ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत
MBh 14.6.30
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात्
आविक्षितो महीपालः संवर्तमुपशिक्षितुम्
MBh 14.6.31
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च
श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत्
MBh 14.6.32
स तथा बाध्यमानोऽपि संवर्तेन महीपतिः
अन्वगादेव तमृषिं प्राञ्जलिः संप्रसादयन्
MBh 14.6.33
ततो निवृत्य संवर्तः परिश्रान्त उपाविशत्
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 5
- Next chapter · Aśvamedhika-Parva Ch 7 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.6local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷